________________
पञ्चमं पर्व चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥८९॥
सर्गः श्रीशान्तिनाथजिन|चरितम् ।
ते कुर्वाणाः करास्फोटं तर्जयन्तः परस्परम् । दोर्युद्धेनाभ्ययुध्यन्त बन्धज्ञाः पन्नगा इव ॥५३ ॥ ते चत्वारः क्षणं रेजुयुद्धे तस्मिन्महौजसः । तिर्यगुत्क्षिप्तदोःशृङ्गा गजदन्ता इवाद्रयः ॥५४ ॥ मेघरथदृढरथकुमाराभ्यामथ क्षणात् । खेदयित्वा बबन्धाते वन्येभाविव तावुभौ ॥ ५५ ॥ देशे तस्मिन्निजामाज्ञां भ्रमयित्वा स्वदेशवत् । कुमारावीयतुः प्रीतौ सुमन्दिरपुरं ततः ॥५६ ॥ अभ्याजगाम निहतशत्रू राजकुमारयोः । अन्यत्राप्यतिथावभ्युत्थेयं तादृक्षु किं पुनः ।। ५७ ॥ तावालिलिङ्ग नृपतिश्चुचुम्ब च शिरस्तले । सुखाद्वैतमनुभवन्नहमिन्द्र इवामरः ।।५८ ॥ सुलग्ने मेघरथेन प्रियमित्रामनोरमे । ज्यायस्यौ कन्यके राजा विधिना पर्यणाययत् ॥ ५९ ॥ कन्यां सुमतिनामानं तृतीयां तु कनीयसीम् । उपयेमे दृढरथो रोजधौतपदाम्बुजः ॥६०॥ ऋद्धया महत्या विवाहे यथावद्विहितेऽथ तौ । विसृष्टौ गौरवाद्राज्ञा चेलतुः स्वां पुरी प्रति ॥ ६१ ॥ सुरेन्द्रदत्तं स्वे राज्ये युवराजसमन्वितम् । तथैव स्थापयित्वा तौ जग्मतुर्नगरी निजाम् ॥२॥ सह प्रियाभिस्तौ भोगान् बुभुजाते महाभुजौ । इन्द्रोपेन्द्राविवैकत्र मिलितौ प्रीतियोगतः ।। ६३ ।। प्रियमित्रा नन्दिषेणं मेघसेनं मनोरमा । सुषुवाते मेघरथपल्यौ पुत्रद्वयं क्रमात् ॥ ६४ ॥ पत्नी दृढरथस्यापि प्रासूत सुमतिः सुतम् । रथसेनाभिधं चारुगुणरत्नैकरोहणम् ॥६५॥ राजा घनरथोऽन्येधुरन्तरन्तःपुरं सुखम् । कलत्रैः पुत्रपौत्रैश्च यूथद्विप इवावृतः ॥ ६६ ॥ १ तिर्यक् उत्क्षिप्तानि दोषाणो बाहव एव शृङ्गाणि यैस्ते । २ राज्ञा धौतं पादपद्मं यस्य सः । ३ चारुगुणा एव रत्नानि तेषामेकरोहणाचलम् । ४ अन्तःपुरस्य मध्ये ।
विवाहः ।
॥८९॥