________________
त्रिषष्टिशलाकापुरुषचरिते ॥८८॥
पञ्चमं पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
उष्ट्रमांकाररावैश्च वेसराणां खरस्वनैः । नादैश्च रणतूर्याणां जगद्बधिरयन् क्षणात् ॥४०॥ सुरेन्द्रदत्तनृपतिः सद्यः सर्वाभिसारतः । उपतस्थे मेघरथं रणातिथ्यविधित्सया ॥४१॥
॥त्रिभिर्विशेषकम् ॥ जैत्रं रथं मेघरथोऽप्यथो दृढरथश्च सः । आरुरोह युधे ध्वान्तध्वंसायेव दिवाकरः ॥४२ ॥ शंकून् शल्यानि चक्राणि प्रासान्दंडान् गदा अपि । तीरीतेद्बलनाराचप्रभृतीन विशिखानपि ॥४३ ॥ पाषाणलोहगोलांश्च करैर्यन्त्रैश्च सैन्यकाः । अस्त्रमेघा इवोन्नम्य सैन्ययोर्ववृषुद्धयोः ॥ ४४ ॥ नीरघ्रः शस्त्रसंपातः सैन्ययोरुभयोरपि । तदाभूतु खेचरस्त्रीणां युद्धदर्शनविनकृत् ॥ ४५ ॥ अस्त्रैरस्त्राण्यखण्ड्यन्ताभज्यन्त च रथै रथाः । समरे तत्र यादांसि यादोभिरिव वारिधौ ॥४६॥ अस्खल्यमानप्रसरैः क्षणादपि परैरथ । प्रभञ्जनैर्वनमिवाभञ्जि सैन्यं कुमारयोः ।। ४७ ।। क्रुद्धावथ कुमारौ तावद्वैतभुजविक्रमौ । परसैन्यं जगाहाते महासर इव द्विपौ ।। ४८ ॥ उद्भान्तयोरिवाम्भोध्योस्तयोरस्त्रोर्मिमालिनोः । स्खलनाय न केऽप्यग्रे तस्थुः प्रत्यर्थिसैन्यकाः ॥ ४९ ।। मथ्यमाने बले ताभ्यां करिभ्यामिक्षुवाटवत् । सुरेन्द्रदत्तोऽधाविष्ट युवराजान्वितो युधे ॥५०॥ सुरेन्द्रदत्तः श्रीमेघरथेन युयुधे समम् ।युवराजो युवा तस्य समं दृढरथेन तु ॥५१॥ अन्योऽन्य चिच्छिदुः शस्त्राण्यस्त्राणि च बबाधिरे । रणाजिरे रेजिरे ते चत्वारो लोकपालवत् ॥ ५२ ॥ १ ग्रांकारः शब्दविशेषः । २ अश्वतराणाम् । ३ युद्धाय । ४ सर्वाणि शस्त्रविशेषाणि । ५ सर्वे बाणविशेषाः । ६ जलजन्तवः । ७ शत्रुसैनिकाः ।
PAHARASHTRA
सुरेन्द्रदत्तेन युद्धम् ।
॥८८॥