________________
त्रिषष्टिशलाकापुरुषचरिते ॥८७॥
पञ्चम पर्व चतुर्थः सर्गः श्रीशान्तिनाथजिनचरितम् ।
सुहृष्टः सचिवः शीघ्रं सुमन्दिरपुरं ययौ । नृपं निहतशत्रु च तदाख्यानादहर्षयत् ।।२६ ॥ प्रैषीद्घनरथो मेघरथं दृढरथान्वितम् । सवसन्तं स्मरमिव सुमन्दिरपुरं प्रति ॥ २७ ॥ सामन्तामात्यसेनानीसेनापरिवृतौ ततः । सरिदोघाविवाविघ्नं कुमारौ तौ प्रचेलतुः ॥२८॥ गत्वा प्रयाणैरव्यग्रैर्मर्यादापालनार्णवौ । सुरेन्द्रदत्तनृपतेर्देशसीमन्यथोषतुः ॥ २९ ॥ राज्ञा सुरेन्द्रदत्तेन दत्तशिक्षोऽभ्युपेत्य तम् । ऊचे मेघरथं दूतः सावष्टंभमिदं वचः ॥३०॥ सुरेन्द्रदत्तो नः स्वामी सुरेन्द्र इव विक्रमी । अस्मद्देशस्य मध्येन मा गास्त्वमिति वक्ति सः ॥३१॥ अस्मत्सीमानमुत्सृज्य त्वं गच्छान्येन वर्त्मना । समृगेन्द्रे गतिर्मार्गे मुगस्य कुशलाय न ॥३२॥ स्मित्वा मेघरथोऽप्येवमवदद्वदतां वरः । अस्माकमयमेवाध्वा ऋजुः स त्यज्यतां कथम् ॥ ३३ ॥ पूरयन्त्यवटान वृक्षानुत्खनन्ति खनन्ति च । स्थलीस्तुङ्गा न चाध्वानं त्यजन्ति सरितोऽपि हि ॥३४ ॥ एते वयमनेनैव यास्यामो वर्त्मनर्जुना । अनृजुः स तु ते स्वामी स्वशक्ति दर्शयत्वहो ।। ३५ ॥ इति मेघरथेनोक्तमशेषमपि तत्क्षणम् । गत्वा सुरेन्द्रदत्ताय राज्ञे दूतो न्यवेदयत् ॥३६ ॥ श्रुत्वा सुरेन्द्रदत्तस्तच्छ्रुतहक्क इव द्विपः । आध्मातताम्रताम्रास्यो रणभम्भामवीवदत् ॥३७॥ निषादिनां सादिनां च पत्तीनां रथिनामपि । तस्यापेतुः समीकार्थीन्यथानीकान्यनेकशः ॥ ३८ ॥ भटोद्भटकरास्फोटैर्धनुष्टङ्कारडम्बरैः । अश्वस्यन्दनमातङ्गहेषाचीत्कारबृहितैः ॥३९ ॥ १ सगर्वम् । २ सिंहसहिते मार्गे ।३ गान् । ४ गजाह्वानशब्दो हक्कः । ५ तप्तताम्रवद्रक्तमुखः । ६ युद्धार्थीनि ।
सुरेन्द्रदत्तेन युद्धम् ।
॥ ८७॥