________________
पञ्चमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥८६॥
चतुर्थः सर्गः
श्रीशान्तिनाथजिनचरितम् ।
अथ प्रियमतीसूनोःशुभेऽहनि महीपतिः । स्वप्नानुसारतो मेघरथ इत्यभिधां व्यधात् ॥ १२ ॥ राज्ञीस्वप्नानुसारेण द्वितीयस्यापि भूपतिः । सूनोदृढरथ इति नामधेयमकल्पयत् ॥ १३ ॥ मेघरथदृढरथौ दृढसौभ्रात्रशालिनौ । क्रमेण ववृधाते तौ सीरिशाइधराविव ॥ १४ ॥ राज्यस्थानमनङ्गस्य कामिनीजनकार्मणम् । तौ रूपोत्कर्षजनकं यौवनं प्रापतुः क्रमात् ।। १५ ॥ राज्ञोऽथ निहतशत्रोः सुमन्दिरपुरेशितुः । एत्यामात्यो घनरथं प्रणम्यैवं व्यजिज्ञपत् ॥ १६ ॥ तैस्तैर्गुणैरुपेता वः कीर्तिः कुन्दोज्वला प्रभो । प्रभेव हरिणाङ्कस्य प्रमोदयति कं न हि ॥ १७ ॥ दूरस्थितोऽपि निहतशत्रुर्युष्मासु सौहृदी । सम्बन्धात्सन्निधीभूय विशेषस्नेहमिच्छति ॥१८॥ तिष्ठन्ति कन्या निहतशत्रोस्तस्य महीपतेः । पृथग्जगत्त्रयस्त्रीणां स्वामितायामिव स्थिताः ॥ १९ ॥ तत्र मेघरथस्य द्वे एकां दृढरथस्य च । दित्सते निहतशत्रुर्भूयास्तं सुहृदौ युवाम् ॥२०॥ राजा घनरथोऽप्यूचे घनध्वनितधीरवाक् । घनीभवतु नौ स्नेहः सम्बन्धेनामुनाधुना ॥ २१ ॥ प्रवाहैरिव सम्बन्धैरापेतद्भिः पुरः पुरः । सतां स्नेहाः प्रवर्धन्ते नद्यः सानुमतामिव ।।२२ ॥ सोऽप्यमात्यो जगादेवं देव दैवज्ञपुङ्गवम् । आहूयादिश लग्नं मे कल्यं कल्याणकर्मसु ॥२३॥ प्रस्थापय कुमारौ तन्मारतुल्यौ वपुःश्रिया । कन्योद्वाहमिषात् स्वामिन्नस्मत्स्वाम्यनुगृह्यताम् ॥ २४ ॥ ज्ञानिना लममासूत्र्यागमनं च कुमारयोः । प्रतिपद्य नरेन्द्रोऽथ सचिवं विससर्ज तम् ।।२५ ॥ १ सुभ्रातुर्भावः सौभ्रात्रम् । २ चन्द्रस्य । ३ सुहृदो भावः सौहृदं तदस्त्यस्य । ४ दातुमिच्छति । ५ आगच्छद्धिः । ६ शुभम् ।७ कामदेवसमानौ ।
सुरेन्द्रदत्तेन युद्धम् ।
॥८६॥