________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३३॥
पञ्चमं पर्व 'पञ्चमः.. सर्गः . श्रीशान्तिनाथजिनचरितम् ।
पुण्यैरस्मादृशामेते तव कल्याणकोत्सवाः । कल्याणचिन्तामणयः प्रभवन्ति जगद्गुरो ॥३१२ ॥ कषायादिमलालीढं मनः सर्वशरीरिणाम् ।क्षालयन्तिं जगन्नाथ त्वदर्शनजलोर्मयः ।।३१३।। कर्मच्छिदे बद्धयत्नस्तीर्थकृत्कर्म यत् पुरा । आर्जयस्तत्तव स्वार्थानपेक्षान्योपकारिता ॥३१४ ॥ घोरसंसारभीतानां महादुर्गमिव प्रभो । जगत्यदस्ते समवसरणं शरणं नृणाम् ॥ ३१५ ।। जानासि सर्व सर्वेषां भावं सर्वहितोऽसि च । प्रार्थनीयं न तत् किश्चित्तथापि प्राय॑से मया ॥३१६ ॥ यथा हि विहरन्नु| ग्रामाकरपुरादिकम् । क्षणे क्षणे त्वं त्यजेसि मा त्याक्षीमन्मनस्तथा ॥ ३१७॥ त्वत्पादपङ्कजध्यानषट्पदीभूतचेतसः । व्यतिक्रामतु मे कालो भगवस्त्वत्प्रसादतः ।। ३१८ ।। स्तुत्वेति सति तूष्णीके शक्रे चक्रायुधेऽपि च । श्रीशान्तिनाथी भगवानारेभे देशनामिति ॥ ३१९ ॥ अनेकदुःखसंताननिदानं दववह्निवत् । अहो खल्वेष संसारश्चतुर्गत्यात्मकः सदा ॥ ३२० ।। । क्रोधमानमायालोभः कषायास्तस्य चोच्चकैः । आधारभूताश्चत्वारस्तम्मा इव महौकसः ।। ३२१ ॥ तत्क्षीणेषु कषायेषु संसारः क्षीयते स्वयम् । मूलेषु हि विशुष्कषु शुष्क एवं महीरुहः ।। ३२२ ।। विनेन्द्रियजयं नैव कषायान् जेतुमीश्वरः । हन्यते हैमर्ने जाय नविना ज्वलितानलम् ॥ ३२३ ॥ अंदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारय जन्तुः सपदि नीयते ।। ३२४ ॥ इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टैष्टका पूर्व व कै कैर्न खण्डयतें ॥३२५ ।। कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥ ३२६ ॥
outsides
टा १ सुवर्णसम्बन्धि जाड्यं मलम् । २ अदमितैः । ३ कृष्य इष्टका यस्य वस्य । ४ इन्द्रियाणि ।
४. देशना ।
॥१३३ ॥