________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥८३॥
इत्थं च नाना तौ यावत्तमुपाद्रवतां मुनिम् । तावद्वन्दितुमर्हन्तं चेलुः पल्यो बिडौजसः ॥ २११ ॥ रम्भातिलोत्तमाद्यास्तास्ततस्त्रिदशयोषितः । मुनौ तत्रोपसर्गांस्तौ कुर्वाणौ ददृशुः सुरौ ॥ २१२ ॥ आः पापौ किमिहारब्धं युवाभ्यां मुनिपुङ्गचे । इति ब्रुवाणा वेगात्ता अवतेरुर्नभस्तलात् ॥ २१३ ॥ तत्र चावतरन्तीस्ताः प्रेक्ष्य तौ क्षुभितौ सुरौ । सतुः सूर्यभालोके कियत्तिष्ठन्ति कौशिकाः ॥ २१४ ॥ इन्द्रस्येव मुनीन्द्रस्य पुरस्तात्तस्य भक्तितः । नाट्यं प्रपञ्चयामासु रम्भाद्याः सुरयोषितः ।। २१५ ।। ततः पैवित्रमानिन्यस्तं वन्दित्वा महामुनिम् । देव्यस्ताः सपरीवाराः स्वं स्वं स्थानं पुनर्ययुः ॥ २१६ ॥ प्रतिमां पारयित्वा तां महर्षिः सोऽपि वार्षिकीम् । अतुल्ययमनियमो विजहार वसुन्धराम् ।। २१७ ।। सहस्रायुधराजोऽपि राजश्रेणीविराजितः । राजपुत्रीमिवोदूढां राज्यश्रियमभुक्त सः ॥ २१८ ॥ एकदा समवासार्षीन्नानामुनिगणावृतः । तस्य पुर्यां गणधरो नामतः पिहिताश्रवः ।। २१९ ॥ . तं सहस्रायुधोऽभ्येत्य ववन्दे भक्तिभावितः । अश्रौषीत् कर्णपीयूषवृष्टि तस्य च देशनाम् ॥ २२० ॥ इन्द्रजालमिवासारं संसारं तत्क्षणाद्विदन् । सद्यः स राजा स्वे राज्ये पुत्रं शतबलिं न्यधात् ॥ २२१ ॥ पिहिताश्रवपादान्ते प्रव्रज्यां स्वयमाददे । आदाय द्विविधां शिक्षां विजहार वसुन्धराम् ॥ २२२ ॥ विहरन्नपरेद्युश्च स सहस्रायुधो मुनिः । वज्रायुधस्य राजर्षेः सोमस्येव बुधोऽमिलत् ॥ २२३ ॥ संयुक्तौ तौ पितापुत्रौ तपोध्यानपरौ सदा । परीषहसहौ स्वाङ्गेऽप्यनपेक्षौ क्षमाधनौ ॥ १ विविधप्रकारेण । २ उलूकाः । ३ आत्मानं पवित्रं मन्यन्ते ताः । ४ चन्द्रस्येव ।
२२४ ॥
पञ्चमं पर्व
तृतीयः सर्गः
श्री शान्तिनाथजिनचरितम् ।
सहस्रा
दीक्षा ।
11 23 11