________________
त्रिषष्टिशलाका
विहरन्तौ पुरग्रामारण्यादिष्वनवस्थितौ । गमयामासतुः प्राज्यं कालमेकाहवत्सुखम् ॥२२५ ॥ तत ईषत्वाग्भाराख्यं गिरिमारुह्य तौ मुनी । प्रपेदाते अनशनं पादपोपगमाभिधम् ॥ २२६ ॥
आयुःक्षये वपुरपास्य महामुनीन्द्रौ ग्रैवेयकेऽथ परमर्द्धिपदे तृतीये । सद्योऽहमिन्द्रपदमद्भुतमाप्य पञ्चविंश्यर्णवोपममितस्थिति तस्थतुस्तौ ॥२२७ ॥
पुरुषचरिते
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥८४॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये | पञ्चमे पर्वणि श्रीशान्तिनाथदेवीयाष्टमनवमभववर्णनो नाम
तृतीयः सर्गः ।
प्रैवेयके उत्पत्तिः ।
॥८४॥
१ एकदिनवत् ।