________________
पञ्चमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥८२॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
RASARASHRSHASHASIRSARE
देशनान्ते प्रभु नत्वा चक्री वज्रायुधोऽवदत् । स्वामिन् भीतोऽस्मि संसारार्णवादस्माद्दुरुत्तरात् ॥ १९७ ।। स्वे सहस्रायुधं राज्ये यावन्यस्यापताम्यहम् । तावदागमयस्वेह दीक्षां दातुं मम प्रभो ॥१९८ ॥ न प्रमादो विधातव्य इत्युक्तः स्वामिना नृपः । गत्वा पुरी जिने राज्ये सहस्रायुधमादधौ ॥ १९९ ॥ स सहस्रायुधेनाथ कृतनिष्क्रमणोत्सवः । आरुह्य शिबिकां गत्वा क्षेमकरजिनान्तिके ।। २०० ॥ चतुःसहस्या राजीनां भूभुजां च किरीटिनाम् । सुतानां सप्तशत्या च सहितो व्रतमाददे ।। २०१ ।। विविधाभिग्रहपरः सहमानः परीषहान् । वज्रायुधर्षिर्विहरन्नगमत् सिद्धिपर्वतम् ॥ २०२ ॥ उपसर्गान् सहिष्येऽहमिति बुद्ध्या स शुद्धधीः । स्तम्भे विरोचने तत्र प्रतिमा वार्षिकी दधौ ॥२०३ ॥ इतश्चाश्वग्रीवसुतौ चिरं भ्रान्त्वा भवाटवीम् । मणिकुम्भो मणिकेतुः कृत्वा बालतपोऽन्यदा ।। २०४ ।। उत्पन्नावसुरत्वेन प्रारब्धस्वैरचर्यया । तदा तत्र समायातौ तं महर्षिमपश्यताम् ।। २०५ ॥
॥युग्मम् ॥ ततस्तावमिततेजोभववैरेणं तं मुनिम् । प्रारेभाते उपद्रोतुं महाद्वं महिषाविव ॥२०६ ॥ सिंहीभूयोभयोस्तस्य पार्श्वयोस्तावुभावपि । नखरैश्चख्नतुहं खरैर्वजारैरिव ॥ २०७॥ अथ तं कुञ्जरीभूयान्तर्वेदिमिव जघ्नतुः । करघातैर्दन्तघातैः पादघातैश्च दुःसहैः ॥२०८ ॥ भूयश्च भुजगीभूय तस्यर्षेः पार्श्वयोर्द्वयोः । दृढबन्धं ललम्बाते योकत्रपाशाविवानेसः ॥२०९ ॥ दधानी कत्रिकां तीक्ष्णां निजदंष्ट्रासहोदराम् । उपदुद्रुवतुरथ राक्षसीभूय तं मुनिम् ॥२१०॥ १ आगच्छामि । २ प्रतीक्षस्व । ३ प्रारब्धा या स्वैरचर्या स्वेच्छागमनं तया । ४ योकत्र जोतर' इति भाषयाम् । ५ शटकस्य ।
वजायुधप्रव्रज्या।
॥ ८२॥