________________
पञ्चमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥८१॥
सर्गः श्रीशान्तिनाथजिनचरितम् ।
धर्मलाभं ततः प्राप्य देवीभ्यां सममेव सः । अौषीद्भवदावाग्निप्रावृषं धर्मदेशनाम् ॥ १८२ ॥ ततः प्रबुद्धः कनकशक्तिर्देव्यावुभे अपि । राज्यश्रीवद्गृहे मुक्त्वा प्रवव्राज महामतिः ।। १८३ ॥ देव्यौ ते अपि संविने विवेकिन्यौ शुभाशये । आर्याया विमलमतेः पार्श्वे जगृहतुव्रतम् ॥ १८४ ॥ विहरन् कनकशक्तिर्गत्वा सिद्धिपदे गिरौ । शिलायामेकरात्रिक्या तस्थौ प्रतिमया स्थिरः ॥१८५ ॥ तथा च तं स्तम्भमिव स्थिरं दृष्ट्वा दुराशयः । हिमचूलसुरः कर्तुमुपसर्गान् प्रचक्रमे ।। १८६ ॥ तस्योपसर्गान् कुर्वाणं तं च गीर्वाणपांसनम् । क्रुधा न्यत्रासयन् विद्याधराः पक्षे सतां जनः ॥१८७ ॥ प्रतिमां पारयित्वा तां विहरन्नगमत्ततः । स तपःसंचयगिरिनगरी रत्नसंचयाम् ।।१८८॥ अथ सूरनिपाताख्ये तत्रैवोपवने मुनिः । चक्रे गिरिरिवाकम्प्रः प्रतिमामेकरात्रिकीम् ॥ १८९ ॥ तस्य च क्षपकश्रेणिमारूढस्य क्षणादपि । घातिकर्मक्षयाज्जज्ञे केवलज्ञानमुज्वलम् ॥ १९०॥ तस्य केवलमहिमामुपेत्य विदधुः सुराः । हिमचूलस्तु तदृष्ट्वा भीतस्तं शरणं ययौ ॥१९१ ॥ वज्रायुधोऽपि तस्यर्षेर्यथावन्महिमा व्यधात् । श्रुत्वा च देशनां तस्माज्जगाम स्वपुरी पुनः ॥१९२ ॥ अन्यदा समवासार्षीत्तत्र क्षेमङ्करः प्रभुः । कोटिसङ्ख्यैः सेव्यमानः सुरासुरनरेश्वरैः ॥ १९३ ॥ वज्रायुधाय चाचख्युरुपेत्यायुक्तपूरुषाः । स्वामिनं समवसृतं क्षेमकरजिनेश्वरम् ।। १९४ ॥ स्वर्णस्य द्वादश सार्धाः कोटीस्तेभ्यः प्रदाय सः । क्षेमङ्करं तीर्थकरं जगाम सपरिच्छदः ॥ १९५ ॥ तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य च भक्तितः । उपविश्यानुशक्रं च सोऽौषीद्धर्मदेशनाम् ।। १९६ ॥ १ अधमदेवम् । २ तपसां संचयस्य समूहस्य गिरिः ।
RSSRAHASRANASAN
कनकशक्तिवृत्तान्तः ।
।। ८१॥