SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥८ ॥ पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् । विद्याधरोऽस्मि वैताळ्यशैलादर्थेन केनचित् । अग्रतो गा वलितः सन्निहोद्याने समापदम् ॥१६९ ॥ क्षणमस्थामहमिह पश्यन्नुधानरम्यताम् । अस्माष यावदुत्पित्सुर्विधामाकाशगामिनीम् ।। १७० ॥ विद्यायाः पदमेकं मे विस्मृतं तावदेव तत् । आबद्धपक्षः पक्षीवोत्पतामि निपतामि च ।। १७१॥ ॥युग्मम् ॥ व्याजहार कुमारोऽपि पुरस्तादपरस्य चेत् ।युज्यते पठितुं विद्या महापुरुष तत् पठ॥१७२ ॥ सोऽप्यूचे सामान्यपुंसां पुरो विद्या न पठ्यते । महात्मनां त्वादृशां सा देया पाठे तु का कथा ॥१७३ ॥ सोऽथ विद्याधरो विद्यां पदहीनां पपाठ ताम् । पदानुसारिधीराख्यत् कुमारोऽपि हि तत्पदम् ॥ १७४ ॥ विद्याधरः पुनर्भूतविद्याशक्तिस्ततश्च सः । कुमाराय ददौ विद्याः कृतज्ञा हि विवेकिनः ॥ १७५ ॥ ययौ विद्याधरः सोऽथ कुमारोऽपि यथाविधि । विद्यास्ताः साधयित्वा च महाविद्याधरोऽभवत् ।। १७६ ॥ पैतृष्वनेयो वसन्तसेनायां स च रोषभाक् । अक्षमः कनकशक्तेरपकर्तुं मनागपि ॥ १७७ ॥ लज्जया भक्तपानादि परिहत्य विपद्य च । हिमचूल इति नामा त्रिदशः समजायत ॥ १७८ ॥ ॥युग्मम् ॥ वसन्तसेनाकनकमालाभ्यां सहितो महीम् । बभ्राम कनकशक्तिर्विद्याशक्त्या समीरवत् ॥ १७९ ॥ स जगामैकदा स्वैरी हिमवन्तं महागिरिम् । तत्रापश्यच्च विपुलमत्याख्यं चारणं मुनिम् ॥ १८०॥ उत्तप्तस्वर्णवर्ण तं तपस्तेज इवांगवत् । कृशाङ्ग विजितानङ्गमवन्दिष्ट स भक्तितः ॥ १८१ ।। १ महीम् । ईषद्बद्धौ पक्षी यस्य सः ।३ पदस्यानुसारिणी बुद्धिर्यस्य सः । ४ मूर्तिमत् । ५ विजितः अनङ्गः कामो येन । कनकशक्तिवृत्तान्तः । ॥८०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy