________________
त्रिषष्टिशलाकापुरुषचरिते
७९॥
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
ततश्व्युत्वा स ईशानो जन्मन्यन्यत्र सिद्धवान् । आयुःक्षयेऽपरौ तौ च तद्भवेऽपीयतुः शिवम् ।। १५४ ॥ स तु वज्रायुधश्चक्री ससहस्रायुधो भुवम् । सहस्राक्षः सजयन्त इव द्यां पर्यपालयत् ।। १५५ ॥ सहास्रायुधपत्नी तु जयनेत्यन्यदा निशि । स्वप्ने ददर्श कनकशक्ति किरणदन्तुराम् ॥ १५६ ॥ तया च प्रातराख्याते पतिर्व्याख्यातवानिति । तव पुत्रो महाशक्तिनं देवि भविष्यति ।। १५७ ॥ तदैव देवी सा गर्भमुदुवाह सुदुर्वहम् । कालेऽजनिष्ट तनयरत्नं सस्यमिवोर्वरा ॥ १५८ ॥ पिता च जयना देवी दृष्टस्वप्नानुसारतः । तस्य बालस्य कनकशक्तिरित्यभिधां व्यधात् ॥१५९ ॥ सक्रमात् समतिक्रान्तशैशवो नवयौवनः । सुमन्दिरपुरे तस्य तनयां मेरुमालिनः ॥१६०॥ मल्लादेवीकुक्षिभवां रूपलावण्यशालिनीम् । नामतः कनकमालामुपयेमे यथाविधि ॥१६१ ॥ ॥युग्मम् ॥ इतश्च मशकासारे श्रीसारे प्रवरे पुरे । समभूदजितसेन इति नाना महीपतिः ॥ १६२ ॥ तस्य चासीत् प्रियसेनादेवीकुक्षिभवा सुता । वसन्तसेना कनकमालायाः सा सखी वरा ॥१६३ ॥ पिता वसन्तसेनाया अपश्यन्नुचितं वरम् । प्रौषीत् स्वयंवरां तां तु पुत्री कनकशक्तये ॥ १६४ ॥ ततः कनकशक्तिस्तमुपायंस्त यथाविधि । तस्याश्च पैतृष्वनीयो रुरोषोद्वाहतस्ततः ॥१६५ ॥ उद्याने कनकशक्तिर्विहरन्नेकदैककम् । उत्पतन्तं पतन्तं चापश्यत् कुर्कुटवन्नरम् ।। १६६ ॥ ऊचे कनकशक्तिस्तं किं त्वमुत्पातपातकृत् । पतङ्ग इव भोः शंस रहस्यं भवतो न चेत् ॥१६७ ॥ सोऽप्युवाच पुमानेवं त्वादृशानां महात्मनाम् । रहस्यमप्याख्यातव्यं तदाख्यातं गुणाय हि ॥१६८॥ १ पृथ्वी धान्यमिव ।
कनकशक्तिवृत्तान्तः ।
॥ ७९
॥