________________
त्रिषष्टिशलाकापुरुषचरिते
॥७८॥
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
SHRSHASSANSAR
चक्रभृत् पुनराचख्यौ क्षेमङ्करजिनान्तिके । त्रयोऽपि यूयमचिरात् परिव्रज्यां ग्रहीष्यथ ॥ १४० ॥ करिष्यति तपो रत्नावली शान्तिमती पुनः । मृत्वा चानशनेनासावीशानेन्द्रो भविष्यति ॥ १४१ ॥ तदैव केवलज्ञानं घातिकर्मपरिक्षयात् ।युवयोः पवनवेगाजितसेनौ भविष्यति ॥ १४२ ॥ युवयोः केवलज्ञानमहिमानं महोत्सवात् । एत्य स्वदेहपूजां च स ईशानः करिष्यति ॥ १४३ ॥ कालेन च ततश्च्युत्वेशानेन्द्रः प्राप्य मर्त्यताम् । उत्पन्नकेवलज्ञानः सिद्धिमासादयिष्यति ॥१४४ ॥ त्रिकालज्ञानविषयं तच्छ्रुत्वा चक्रिणो वचः । व्यस्मयन्त स्मेरदृशः सर्वे तत्र सभासदः ॥ १४५ ॥ राजा पवनवेगस्तत्सुता शान्तिमती च सा । विद्याधरोऽजितसेनस्तं प्रणम्यैवमूचिरे ॥ १४६ ॥ पिता स्वामी गुरुर्देवस्त्वमस्माकं जगत्पते । मिथोऽपायप्रसक्तानां को नस्त्रातापरो भवेत् ।। १४७ ॥ आहत्यान्योऽन्यमवैवायास्याम नरके वयम् । अस्माकं नाभविष्यच्वेत्तद्वारे त्वद्वचोऽर्गला ॥ १४८ ॥ तत्स्वामिन्ननुमन्यस्वाद्यैव संसारभीरवः । शरणाय व्रजिष्यामः क्षेमंकरजिनेश्वरम् ।। १४९ ॥ इति विज्ञपयन्तस्तेऽनुज्ञाताश्चक्रवर्तिना । उपेत्य प्राव्रजन् क्षेमकरतीर्थंकरान्तिके ॥१५०॥ ते तपस्तेपिरेऽत्युग्रमनुग्रमनसश्चिरम् । कृशीभवद्भिः शरीरैः परिहारभयादिव ।। १५१ ।। तत्र शान्तिमती मृत्वेशानकल्पाधिपोऽभवत् । तदैव केवलज्ञानमभूदितरयोः पुनः ॥ १५२ ॥ तयोश्च केवलज्ञानमहिमानमुपेत्य सः । ईशानेन्द्रोऽकरोत्तस्य निजदेहस्य चार्चनम् ॥१५३ ॥ १ सम्बोधनमेतत् । २ स्वमृतदेहसंस्कारम् । ३ प्रफुल्लदृष्टयः । ४ घातकरण आसक्तानाम् । ५ नरकद्वारे । ६ अनुग्रं कोमलं मनो येषां ते । ७ नाशभयात् ।
विद्याधरत्रयवृत्तान्तः ।
॥७८॥