________________
त्रिषष्टिशलाकापुरुषचरिते
७७॥
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
प्रासादमन्यदारोहत् सप्रभकरया समम् । वैमानिकः समं देव्या विमानमिव भासुरम् ।। १२५ ॥ गिरीन्द्रशिखराकारानअनधुतितस्करान् । गर्जितर्जितदिक्चक्रानुद्भान्तानिव दिग्गजान् ॥ १२६ ॥ विधुदुद्योतितव्योम्न ऋजुरोहितधारिणः । अकस्मादुन्नतान्मेघान्ददर्श मुमुदे च सः ॥ १२७ ॥युग्मम् ॥ तांश्च प्रचण्डवातेन पोतानिव दिशो दिशम् । आद्राक्षीन्नीयमानांश्च कुहकोत्पादितानिव ।। १२८ ॥ इत्युत्पत्ति विपत्तिं च क्षणार्धेऽपि पयोमुचाम् । निरीक्ष्य नलिनकेतुर्वैराग्यादित्यचिन्तयत् ।। १२९ ॥ यथामी वारिदा व्योनि क्षणादुदयमासदन् । क्षणादस्तमपि तथा संसारे सुखमीदृशम् ॥ १३०॥ युवा वृद्धो धनी रोः पतिः पत्तिर्विरुक् सरुक् । एकजन्मन्यपि जनो धिक् सर्व क्षणिकं भवे ।। १३१ ॥ एवं विमृश्य पुत्रं स्वं राज्ये न्यस्य स तत्क्षणात् । प्रव्रज्यामाददे क्षेमकरतीर्थकरान्तिके ।। १३२ ॥ उग्रैस्तपोभिर्ध्यानेन घोततो घातिकर्मणाम् ।केवलज्ञानमुत्पेदे तस्य कालक्रमेण तु ॥१३३ ॥ भवोपग्राहिकर्माणि हत्वा चत्वार्यपि क्षणात् । जगाम नलिनकेतुर्महर्षिः पदमव्ययम् ।। १३४ ।। ऋजुर्भद्रस्वभावा च सापि राज्ञी प्रभङ्करा । सुव्रतागणिनीपार्श्वेऽचरच्चान्द्रायणं तपः ॥ १३५ ॥ फलेन तपसस्तस्य सम्यक्त्वादि विनापि हि । विपद्य दुहिता जज्ञे सेयं शान्तिमती तव ।।१३६ ॥ दत्तजीवोऽजितसेनस्त्वेष विद्याधरोऽभवत् । पूर्वस्नेहादनेनेयमुत्क्षिप्ता तेन मा कुपः ॥ १३७ ॥ एनं क्षमयतं त्यक्त्वानुबन्धं बन्धुवत् परम् । कषाया नरकायैव यतोऽनन्तानुबन्धिनः ॥ १३८ ।। एवं वज्रायुधगिरा मुक्तवैरास्त्रयोऽपि हि । अन्योऽन्यं क्षमयामासुः संवेगावेगभाजिनः ।। १३९ ॥ १ ऋजुरोहितमिन्द्रधनुः । २ नाव इव । ३ माययोत्पादितानिव । ४ नाशम् । ५ निर्धनः । ६ नाशात् । ७ आग्रहम् । ८ वैराग्यावेशवन्तः ।
विद्याधरत्रयवृत्तान्तः ।
|| ७७॥