________________
त्रिषष्टिशलाका
पुरुषचरिते
॥७६॥
क्रीडोद्यानसरिद्वाप्यादिषु नित्यं तया सह । स्वच्छंद नलिनकेतुरक्रीडन्मीनकेतुवत् ॥ ११२ ॥ उन्मत्त इव दत्तोऽपि तद्वियोगानलार्दितः । उद्याने तत्र बभ्राम ध्यायन् विष्वक् प्रभङ्कराम् ॥ ११३ ॥ तत्र पर्यटता तेन दृक्धाञ्जनदर्शनः । ईक्षांचक्रे वरमुनिः सुमना इति नामतः ।। ११४ ।। मुनेः सुमनसस्तस्य घातिकर्मक्षयात्तदा । उत्पेदे केवलज्ञानमज्ञानध्वान्तवासरः ।। ११५ ।। चक्रिरे केवलज्ञानमहिमानं दिवौकसः । मुनेस्तस्य पदाम्भोजद्वंद्वं दत्तोऽप्यवन्दत ।। ११६ । पीत्वा तस्मान्मुनेर्धर्मदेशनां रूपिणीं सुधाम् । दत्तः प्राक्तापवैधुर्यमुज्झति स्म क्षणादपि ।। ११७ ।। उपशान्तो दानधर्मरतोऽनारतमेव सः । अतिवाह्य शुभध्यानी प्रकृष्टं पुरुषायुषम् ॥ ११८ ॥ जम्बुद्वीपे प्राग्विदेहे सुकच्छे विजयोत्तमे । वैताढ्यपर्वते स्वर्णतिलके प्रवरे पुरे ॥ ११९ ॥ महेन्द्रविक्रमार्कस्य विद्याधरमहीपतेः । पल्यामनिलवेगायां सुतत्वेनोदपद्यत ॥ १२० ॥
॥ त्रिभिर्विशेषकम् ॥ तस्याजितसेन इति नामधेयं पिता व्यधात् । ददौ विद्याश्च विधिवत्तेषां मूलधनं हि ताः ।। १२१ ।। उद्यौवनः पर्यणैषीत् स विद्याधरकन्यकाः । रेमे च ताभिर्विहरन् व्योम्ना गिरिवनादिषु ॥ १२२ ॥ विन्ध्यदत्ते विपन्ने तु पुरे विन्ध्यपुरेऽभवत् । राजा नलिनकेतुः स तार्क्ष्यकेतुरिवोद्भटः ॥ १२३ ॥ स प्रभङ्करया सार्धं दत्तपल्यापनीर्तया । कांदर्पिकः सुर इवाभुङ्क्त वैषयिकं सुखम् ॥ १२४ ॥
१ कामदेववत् । २ दृशोः नेत्रयोः सुधाञ्जनमिव दर्शनं यस्य सः । ३ अज्ञानमेव तमस्तस्य नाशने दिवसतुल्यम् । ४ विष्णुरिव । ५ अपहृतया ।
**
पञ्चमं पर्व
तृतीयः सर्गः
श्री शान्तिनाथजिन
चरितम् ।
विद्याधरत्रयवृत्तान्तः ।
।। ७६ ।।