________________
त्रिषष्टिशलाकापुरुषचरिते
७५॥
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तस्य पल्यां चन्द्रकीर्ती सुकान्ता नाम पुत्र्यभूत् । सर्वलक्षणसंपूर्णा सा मया पर्यणीयत ॥ ९६ ॥ अथावयोः समभवद्रूपशीलविराजिनी । पुत्री शान्तिमती नाम पुरस्तादस्ति या तव ॥९७ ॥ इयं हि साधयन्त्यासीन्महाविद्यां यथाविधि । प्रज्ञप्तिकां भगवती पर्वते मणिसागरे ।। ९८ ॥ विद्याधरणामुनेयं विद्यासाधनतत्परा । व्योमन्युच्चिक्षिपेऽथास्या विद्यासिध्यत्तदैव च ॥ ९९ ॥ अस्याः पलायितः सद्यः शरणं क्वाप्यनाप्नुवन् । त्वत्पादमूलं प्राप्तोऽयं दुरात्मा खेचराधमः ॥ १००॥ प्रज्ञप्तिविद्यापूजार्थं गृहीत्वा बलिमागमम् । न चापश्यमहं तत्र गिरौ दुहितरं निजाम् ॥१०१ ॥ आभोगिन्या ततो ज्ञात्वा स्वामिन्नहमिहागतः । दोषाणामाकरः सोऽयं त्यज्यतां दुष्टशासक ॥१०२ ॥ नालिकेरीफलमिव यथैनं गदयानया । दलयित्वा प्रापयामि प्रेतराजनिकेतनम् ॥ १०३ ॥ अथ ज्ञात्वावधिज्ञानाच्चक्री वज्रायुधोऽवदत् । भो भोः प्राग्भवसम्बन्ध एतेषां श्रुयतामयम् ।। १०४ ॥ अस्यैव जम्बूद्वीपस्य क्षेत्र ऐरावताभिधे ।पुरे विंध्यपुरे विंध्यदत्तो नामाभवन्नृपः ॥१०५ ॥ पल्यां सुलक्षणाख्यायां संपूर्णनरलक्षणः । बभूव तस्य नलिनकेतुरित्याख्यया सुतः ॥१०६ ॥ आसीत्तत्रैव नगरे सार्थवाहशिरोमणिः । मित्राब्जानां मित्र इव धर्ममित्रोऽभिधानतः ॥१०७ ॥ श्रीदत्तायां तस्य पल्या दत्तो नामाभवत् सुतः । दत्तस्याप्यभवत् पत्नी दिव्यरूपा प्रभङ्करा ॥१०८ ॥ एकदा स वसन्तौ समं दयितया तया । जगाम रन्तुमुद्याने रत्येव मकरध्वजः ॥१०९ ॥ राज्ञश्च सूनुर्नलिनकेतुः सोऽपि तदागतः । प्रभङ्करामपश्यत्ता जघ्ने च स्मरपत्रिभिः ।।११०॥ श्लाघ्यमस्या अहो रूपं श्लाघ्यः सोऽपिच योऽनया । रमेतेति विचिन्त्यान्तस्तां सोऽहार्षीत्स्मरातुरः ॥१११ ॥ १ तन्नाम्न्या विद्यया । २ यमराजगृहम् । ३ मित्राण्येव कमलानि तेषां विकासे मित्रः सूर्य इव । ४ कामबाणैः ।
विद्याधरत्रयवृत्तान्तः ।
।। ७५॥