________________
त्रिषष्टिशलाकापुरुषचरिते
॥७४॥
पञ्चमं पर्व तृतीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
सहस्रायुधकुमारं यौवराज्ये न्यधत्त च । धरित्रीधरणसहं मूर्त्यन्तरमिवात्मनः ॥ ८३ ॥ एकदा राजसामन्तामात्यसेनाधिपैर्वृतः । सामानिकैरिव हरिः सोऽध्यास्तास्थानमण्डपम् ।। ८४ ॥ तदानीं चाम्बरतलादापतन्नवनीतलम् । वेपमानाखिलवपुर्द्विपाहत इव द्रुमः ।। ८५ ॥ एको विद्याधरयुवा वज्रायुधमहीभुजम् । शरण्यं शरणायागान्मनाक इव सागरम् ।। ८६ ॥
॥युग्मम् ॥ तत्पृष्टे खड्गफलकधरा विद्याधराङ्गना । आगात् सुरेखा चार्वङ्गी विद्यादेवीव मूर्तिभाक् ॥ ८७ ॥ साप्यूचे चक्रिणं देव दुरात्मायं विसृज्यताम् । यथास्य दुर्नयफलं दर्शयाम्यचिरादहम् ।।८८ ॥ तत्पृष्ठतश्चोरुंगदापाणिभृकुटिभीषणः । यमदूत इवैकः कोऽप्यागाद्विद्याधरः क्रुधा ।। ८९ ॥ विद्याधरं सोऽप्यवोचच्छ्रयतामस्य दुर्नयः । येनेहेयमहं चागामेतद्वधविधित्सया ॥९०॥ अस्त्यस्य जम्बूद्वीपेऽस्य विदेहक्षेत्रभूषणे । सुकच्छनाग्नि विजये वैतात्यो नाम पर्वतः ॥९१ ॥ तस्योपरि पुरश्रेणिशिरोमणितया स्थितम् । पुरं शुल्कपुरं नाम शुल्कं कल्पश्रियामिव ॥९२ ॥ शुक्लदन्तोऽभवत्तत्र विद्याधरनरेश्वरः । पली यशोधरा तस्य कुलद्वययशोधरा ।।९३ ॥ तयोरभूवं पवनवेगो नामाहमात्मजः । क्रमात् कलाकलापं च यौवनं च प्रपन्नवान् ॥ ९४ ॥ तत्रैव वैताढ्यगिरावुत्तरश्रेणिमण्डने । पुरे किन्नरगीतेऽभूद्दीप्तचूलो महीपतिः ॥९५ ॥
FASRASHAHARASHRSHABHARASHA
विद्याधरत्रयवृत्तान्तः ।
॥७४ ।।
१ सभामण्डपम् । २ महती गदा पाणौ यस्य सः ।