________________
त्रिषष्टिशलाकापुरुषचरिते
॥६५॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
अभ्यधुभूभुजोऽप्येवमेवमस्तु तवानघे । अनुज्ञाता त्वमस्माभिर्निर्विघ्नं स्तात्तवेप्सितम् ।।३९१ ।। सर्वोत्सवशिरोरत्नं तस्या निष्क्रमणोत्सवम् । चक्रतुः परया ऋद्धया मुदितौ सीरिशार्जिणौ ॥३९२ ॥ महिष्यो देवराजस्य यक्षराजस्य चैत्य ताम् । आनर्च पूजनीया हि वासवस्यापि तादृशः ॥ ३९३ ॥ सुव्रतार्याङ्घ्रिपद्मान्ते कन्यानां सप्तभिः शतैः । सहाददे सा प्रव्रज्यां मोक्षपादपसारणिम् ॥ ३९४ ॥ साग्रहीद द्विविधां शिक्षा तेपेच विविधं तपः । संवेगेभाविता तस्थावात्माब्जध्यानषट्पदी ॥३९५ ॥ कालान्तरेण क्षपकश्रेणिमारूढवत्यसौ । केवलज्ञानमुत्पेदे मोक्षश्रीदूतसन्निभम् ॥३९६ ॥ प्रबोध्य भव्यभविनो भवोपग्राहिकर्मणाम् । क्षयं कृत्वा च सुमतिः प्रपेदे पदमव्ययम् ॥३९७ ॥ तौ चापराजितानन्तवीर्यो सम्यक्त्वशालिनौ । पर्यपालयतां राज्यं संपृक्तावश्विनाविव ।। ३९८ ॥ पूर्वलक्षचतुरशीत्यायुरन्ते जनार्दनः । निकाचितैः कर्मभिस्तैर्ययौ नरकमादिमम् ॥ ३९९ ॥ द्विचत्वारिंशत्सहस्रवर्षायुस्तत्र नारकः । विविधा वेदना लेभे नाशो नार्जितकर्मणाम् ।। ४०० ॥ आगत्य चमरस्तत्र पिता प्राग्विष्णुजन्मनि । वेदनोपशमं चक्रेऽपत्यस्नेहो बली खलु ।। ४०१ ॥ अनन्तवीर्यजीवोऽपि संविमः सम्यगेव ताः । वेदनाः समधिसेहे स्वं कर्मावधिना स्मरन् ।। ४०२ ।। भ्रातृशोकाबलभद्रोऽप्यात्मजे न्यस्य मेदिनीम् । जयन्धरगणधरपादान्ते व्रतमाददे ॥ ४०३ ॥ तमनुप्राव्रजनाज्ञा सहस्राणि च षोडश । महतामनुलमैर्हि महदासाधतें फलम् ।। ४०४ ॥ १ इन्द्रस्य । २ वैराग्येन भाविता । ३ आत्मैव कमलं तस्य ध्याने भ्रमरीतुल्या ।
विष्णोर्नरकगमनम् ।
॥६५॥