________________
त्रिषष्टिशलाकापुरुषचरिते
॥६४॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
आपदं मरणान्तां तां ज्ञात्वा च शुभभावने । विदधाते अनशनं नमस्कारपरायणे ॥३७८ ॥ कनकीर्विपद्याहं सौधर्मस्वर्गशासितुः । अभूवमग्रमहिषी नामा नवमिका स्वसः ॥३७९ ॥ विपद्य च धनश्रीस्त्वं धनदस्य महिष्यभूः । च्युत्वा ततोऽत्र सुमतिः सीरिणस्त्वं सुताभवः ॥३८० ॥ आसीत्तदा नौ सङ्केत्तश्च्यवते प्रथमं हि या । सार्हद्धर्म बोधनीया समुपेत्य द्वितीयया ॥ ३८१ ॥ त्वां बोधयितुमेषाहमागतास्मि तव स्वसा । जैन बुध्यस्व धर्म त्वं संसारोदधितारणम् ॥३८२ ॥ नन्दीश्वरमहाद्वीपेऽष्टाहिकाः शाश्वतार्हताम् । यथास्थानं जन्मस्नात्राद्युत्सवाअंगमार्हताम् ॥३८३ ॥ तांश्च ता देशनावाचः स्वानुभूताः पुराभवे । स्मरानया विस्मरसि किं जन्मान्तरनिद्रया ॥ ३८४ ॥
॥युग्मम् ॥ देवानामप्यसुलभां मर्त्यजन्मतरोः फलम् । तदादत्स्व परिव्रज्यां सिद्धेः प्रियसखीमिव ॥३८५ ॥ इत्युक्त्वा शक्रमहिषी विमानमधिरुह्य सा । धुतिभि?तयन्ती द्यां ययौ विधुदिवोपरि ॥३८६ ॥ संजातजातिस्मरणा तद्राि सुमतिस्ततः । पपात मूर्छिता भूमौ सद्यो भवभयादिव ।। ३८७ ।। संसिक्ता चन्दनाम्भोभिर्वीजिता व्यजनानिलैः । लब्धसंज्ञा समुत्तस्थौ निशात्यय इवाथ सा ॥३८८ ॥ सा कृताअलिरित्यूचे भो भोः सर्वे कुलोद्भवाः । प्रार्थये पृथिवीनाथा जातिस्मरणवत्यहम् ।।३८९ ॥ मदर्थ यूयमाहूता अनुजानीत तेन माम् । उपादास्ये परिव्रज्यां भवभ्रमिरुगोषधिम् ॥ ३९० ॥
॥युग्मम् ॥ १ गृहाण । २ संसारभयादिव । ३ उच्चकुलोत्पन्नाः । ४ संसारे भ्रमणमेव व्याधिस्तस्यौषधतुल्याम् ।
समुतिवृत्तान्तः।
॥६४॥