________________
पञ्चमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
जज्ञाते समये तस्याः पुत्र्यौ तत्राहमादिमा । कनकश्रीरिति त्वं तु धनश्रीरिति नामतः ॥३६४ ॥ समं परस्परप्रीत्या ववृधाते उभे अपि । समं कलाकलापेन प्रापतुर्यौवनं च ते ॥३६५ ॥ इतस्ततश्च क्रीडन्त्यौ स्वेच्छयान्येधुरीयतुः । सुपर्वविश्रामभवं पर्वतं गिरिपर्वतम् ।।३६६ ।। फलानि तत्र स्वादूनि पुष्पाणि सुरभीणि च । विचिन्वन्त्यौ भ्रमेतुस्ते वनाद्रेरिव देवते ॥३६७ ॥ रहःप्रदेशे चैकस्मिन्नेकान्तशमशालिनम् । ते नन्दनगिरिं नामालोकयामासतुर्मुनिम् ॥ ३६८ ॥ विलोक्य मुदिते ते च तं मुनि त्रिःप्रदक्षिणम् । कृत्वा भक्त्या ववन्दाते अवदाते उभे अपि ।।३६९ ॥ धर्मलाभाशिष दत्वा स नन्दनमहामुनिः । हृदयानन्दनी धर्मदेशनां विदधे तयोः ।। ३७० ।। तां धर्मदेशनां श्रुत्वेत्यूचतुः प्राअली उभे । यदि नौ योग्यता काचिद्धर्मादेशं प्रयच्छ तत् ॥३७१ ॥ विचार्य योग्यता सोऽपि भगवानुभयोरपि । दिदेश द्वादशविधं धर्म जगृहतुश्च ते ॥ ३७२ ।। तं वन्दित्वा मुनीन्द्रं ते जग्मतुर्निजवेश्मनि । सदाप्यवहिते धर्म पर्यपालयतां च तम् ।।३७३ ॥ क्रीडागिरिसरिद्वापीविविधद्रुमसङ्कलाम् । एकदाशोकवनिका जग्मतुस्ते कुतूहलात् ।। ३७४ ॥ विविधक्रीडया तत्र क्रीडन्त्यौ ते नदीतटे । अहार्षीत् खेचरयुवा वीराङ्गस्त्रिपुराधिपः ॥ ३७५ ।। वज्रश्यामलिका नाम तस्य भार्या शुभाशया । त्याजयामास ते तस्मान्मृग्याविव मृगाधिपात् ॥ ३७६ ॥ भीमाटव्यां नदीतीरे वंशजालोपरि क्षणात् । व्योमस्ते पेततुर्बाले शापभ्रष्टामरीनिभे ॥३७७॥ १ अमरी देवी।
समुतिवृत्तान्तः ।
॥ ६३॥