________________
त्रिषष्टिशलाकापुरुषचरिते
॥२॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
KARISHARASISASRASHASRASHARE
मूर्ध्नि श्वेतातपत्रेण शशिबिंबानुकारिणा । शोभमाना सवयोभिः सखीभिः परिवारिता ॥३५०॥ प्रतीहार्या दर्श्यमानपथा काञ्चनदण्डया । वरमालामुद्वहन्ती बलभद्रस्य कन्यका ॥३५१ ॥ सुरेष्विवोपस्थितेषु विद्याधरनृपेष्वथ । तं मण्डपमलञ्चक्रे सुमतिः श्रीरिवोदधिम् ॥३५२ ॥
॥चतुर्भिः कलापकम् ॥ नीलोत्पलम्रजमिव सृजन्ती मुग्धया दृशा । ईक्षांचक्रे कुरङ्गाक्षी सा स्वयंवरमण्डपम् ॥३५३ ॥ अत्रान्तरे रत्नमयमाणिक्यस्तम्भशोभितम् । लम्बमानं नभो मध्ये मार्तण्डस्येव मण्डलम् ।। ३५४ ॥ अधिष्ठितं देवतया रत्नसिंहासनस्थया । अकस्मादाविरभवद्विमानमधिमण्डपम् ।।३५५ ।।। युग्मम् ॥ सा कन्या ते च राजानस्ते च विद्याधरेश्वराः । तदीक्षांचक्रिरेऽत्यंतविस्मयस्मेरचक्षुषः ॥ ३५६ ॥ तेषां संपश्यमानानां विमानादवतीर्य सा । अधिसिंहासनं देवी मण्डपान्तरूपाविशत् ।। ३५७ ।। सोत्क्षिप्य दक्षिणं पाणिमूचे सुमतिकन्यकाम् । मुग्धे धनश्रीर्बुध्यस्व बुध्यस्व प्राग्भवं स्मर ।। ३५८ ॥ पुष्करवरद्वीपार्धेऽस्ति पूर्वभरतस्य च । मध्यखण्डे विशालर्द्धि श्रीनन्दनपुरं पुरम् ॥ ३५९ ॥ शरणार्थिजनत्राणेष्वतन्द्रालुर्दिवानिशम् । महेन्द्र इव तत्रासीन्महेन्द्र इति भूपतिः ।।३६०॥ राज्ञस्तस्य महादेवी प्राणेभ्योऽप्यतिवल्लभा । अनन्तमतिरित्यासीदनन्तगुणभाजनम् ।।३६१ ॥ एकदा सा निशाशेषे सुषुप्ता स्वप्नमैक्षत । निजोत्सङ्गस्थिते पुष्पमाले सुरभिनिर्मले ॥३६२ ।। आख्याते च तया स्वप्ने राजा व्याख्यातवानिति । भविष्यत्यनवचं ते निश्चितं दुहितद्वयम् ॥३६३ ॥ १ सुखेन सुप्ता ।
समुतिवृत्तान्तः ।
॥२॥