________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥६१ ॥
बाल्यतोऽपि हि सर्वज्ञोपज्ञधर्मानुसारिणी । जीवाजीवादितत्त्वज्ञा तपोऽनुष्ठानशालिनी ।। ३३६ ॥ अखण्डद्वादशविधश्रावकव्रतधारिणी । अर्हत्पूजागुरूपास्तितत्परा सा सदाप्यभूत् ।। ३३७ ।। अन्यदा तूपवासान्ते पारणाय निषेदुषी । सा यावद् द्वारमैक्षिष्ट कोऽप्यृषिस्तावदागमत् ॥ ३३८ ॥ त्रिगुप्तिं पञ्चसमिति धर्मं साक्षादिवागतम् । तं स्थालस्थापितान्नेन प्रतिलाभयति स्म सा ।। ३३९ ॥ तत्राभूच्च तदा दिव्यं वसुधारादिपञ्चकम् । महात्मभ्यः प्रदत्तं हि कोटीकोटिगुणं भवेत् ॥ ३४० ॥ ततः स्थानादृषिरपि विहरन्नन्यतो ययौ । स्थानं नैकत्र साधूनां निःसङ्गानां समीरवत् ॥ ३४१ ॥ आकर्ण्य रत्नवृष्टि तामेयतुर्बलशार्ङ्गिणी । दृष्ट्वा च विस्मयोत्कर्णौ बभूवतुरुभावपि ।। ३४२ ।। आश्चर्यभूतमेतस्याश्चरित्रमिति वादिनौ । कोऽनुरूपो वरोऽमुष्या इत्यचिन्तयतां च तौ ।। ३४३ ॥ ततश्च मन्त्रयित्वा तावीहानन्देन मन्त्रिणा । दृढयामासतुस्तस्याः स्वयंवरमहोत्सवम् ॥ ३४४ ॥ वासुदेवाज्ञया विद्याधरेन्द्रा भूभुजोऽपि च । तत्र स्वयंवरायेयुर्विजयार्धनिवासिनः ।। ३४५ ।। सभागृहमिवेन्द्रस्योपेन्द्रायुक्तास्ततो व्यधुः । रत्नस्तम्भसहस्राङ्कं मण्डप क्षितिमण्डनम् ॥ ३४६ ॥ फणीन्द्रफणमाणिक्य श्रेणिभ्रान्तिप्रदान्यथ । तत्र प्रकल्पयामास रत्नसिंहासनानि ते ।। ३४७ ॥ वासुदेवाज्ञया तेषूपाविक्षन्नवनीभुजः । विद्याधरकुमाराश्च मारतुल्या वपुः श्रिया ॥ ३४८ ॥ संवीतेदिव्यवसना रत्नालङ्कारधारिणी । विचित्रकल्पिताकल्पानल्पामोदविलेपना ॥ ३४९ ॥
१ वायुवत् । २ आगच्छतुः । ३ उपेन्द्रस्य वासुदेवस्यायुक्ताः किङ्कराः । ४ कामदेवतुल्याः । ५ संवीतानि धृतानि दिव्यवसनानि यया सा । ६ विचित्राणि कल्पितान्याकल्पानि भूषणानि यस्याः सा ।
܀܀܀
पञ्चमं पर्व द्वितीयः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
समुति
वृत्तान्तः ।
॥ ६१ ॥