________________
त्रिषष्टिशलाकापुरुषचरिते
॥६०॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
अनन्तवीर्यपुत्रं तैः क्रोडं श्वभिरिवावृतम् । निरीक्ष्य भ्रमयन् सीरं सीरी कोपादधावत ॥३२१ ॥ दमितारिभटास्तेऽपि बलवातासहिष्णवः । तूलपुआ इव ययुः कान्दिशीका दिशो दिशम् ॥ ३२२ ॥ प्राविशत् सपरीवारः स्वपुरी तां जनार्दनः । शुभेऽहन्यर्धचक्रित्वेऽभ्यषिच्यत नरेश्वरैः ॥३२३ ॥ इमां धरित्री विहरन् स्वामी तत्रापरे दिने । उपेत्य समवासार्षीत् स्वयंप्रभजिनेश्वरः ।। ३२४ ॥ श्रीस्वयंप्रभनाथस्यागत्या दिष्ट्याध वर्धसे । इत्यूचिरेऽनन्तवीर्य ततश्च द्वारपालकाः ।। ३२५ ॥ सार्धद्वादश रूप्यस्य कोटीस्तेभ्यः प्रदाय सः । साग्रजः सकनकश्रीः स्वामिनं वन्दितुं ययौ ॥३२६ ॥ स्वयंप्रभोऽपि भगवान् भव्यानुग्रहकाम्यया । सर्वभाषानुगामिन्या विदधे देशनां गिरा ॥ ३२७ ।। कनकश्रीर्जगादैवं वेश्मन्यापृच्छ्य शाङ्गिणम् । आगमिष्यामि दीक्षार्थ कृपां कुरु जगद्गुरो ॥ ३२८ ॥ न प्रमादो विधातव्य इति तीर्थकृतोदिते । कनकश्रीहरिः सीरी जग्मुर्निजनिकेतनम् ॥३२९ ॥ सानुज्ञाप्य हरिं तेन कृतनिष्क्रमणोत्सवा । ऋद्ध्या महत्या तत्रैत्य प्रावाजीदन्तिके प्रभोः ॥३३० ॥ तप एकावलिं मुक्तावलिं च कनकावलिम् । भद्रं च सर्वतोभद्रमित्याद्याचरति स्म सा ।। ३३१ ॥ शुक्लध्यानाग्निनिर्दग्धघातिकमैधसोऽन्यदा । अम्लानं केवलज्ञानं तस्याः समुदपद्यत ॥३३२ ॥ भवोपग्राहिकर्माणि क्षपयित्वा क्रमेण च । कनकश्रीराससाद पदं तदपुनर्भवम् ॥३३३ ॥ भुञ्जानौ विविधान् भोगान् शाहसीरधरावपि । गमयामासतुः कालं सुखममौ सुराविव ॥ ३३४ ॥ आसीच्च बलदेवस्य दयिता विरताह्वया । तस्याः कुक्षौ समुत्पेदे सुमतिनाम कन्यका ।। ३३५ ।। १ सूकरम् । २ बलभद्रः । ३ हरिणा । ४ शुक्लध्यानाग्निना निर्दग्धानि घातिकर्माण्येवैधासि काष्ठानि यया तस्याः ।
कनकभीमोक्षः ।
॥६०॥