________________
पञ्चमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥५९॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
प्रियायां मदिरानाम्न्यां दमितारेर्महीभुजः । श्रीदत्ताजीव एव त्वं कनकश्रीसुताभवः ॥३०६ ॥ विचिकित्सामनालोच्याप्रतिक्रम्य च यन्मृता । तदोषाबन्धुविरह ईदृक् पितृवधश्च ते ॥३०७॥ कलङ्कः खलु धर्मस्य स्तोकोऽप्यत्यन्तदुःखदः । विषमल्पमपि प्सातं प्राणनाशाय जायते ॥३०८ ॥ ईदृग्भूयो न तत्कार्यमीदृग्भूयो यथा भवेत् । किं तु सम्यक्त्वमादेयं पञ्चदोषीविवर्जितम् ॥ ३०९ ॥ कनकश्रीस्ततः सद्यो वैराग्यावेगधारिणी । इत्थं विज्ञपयामास चक्रलाङ्गलधारिणौ ॥३१०॥ दुष्कृतेनाल्पकेनापि यद्येवं दुःखमाप्यते । तदलं कामभोगैमें दुष्कृतोत्पत्तिखानिभिः ।।३११ ॥ स्तोकेनापि हि रन्ध्रेण यथा मज्जति नौर्जले । दुष्कर्मणाल्पकेनापि तथा दुःखेषु ही जनः ।। ३१२ ॥ तदा दारिद्र्यभीतायाः कुर्वन्त्यास्तादृशं तपः । विचिकित्सा कुतोऽप्यासीदहो मे मन्दभाग्यता ।। ३१३ ॥ सम्प्रत्यैश्वर्यमत्ताया मम भ गजुषः खलु । कियती विचिकित्सैका यत्स्युर्दोषान्तराण्यपि ॥ ३१४ ॥ तत्प्रसद्यानुमन्येथां प्रव्रज्याग्रहणाय माम् । ईदृक्छलपरादस्माद्रीतास्मि भवराक्षसात् ।। ३१५ ॥ विस्मयस्मेरनयनौ ततस्तावित्यवोचताम् । भवत्विदमविघ्नं ते गुरुपादप्रसादतः ।। ३१६ ॥ किं त्विदानी शुभां यामो नगरी धीगरीयसि । यथा तत्र महा ते कुर्मो निष्क्रमणोत्सवम् ।।३१७ ॥ स्वयंप्रभजिनेन्द्रान्ते गृह्णीयास्तत्र चानघे । संसारवारितरणे तरकाण्डोपमं व्रतम् ॥३१८ ॥ तथेति प्रतिपेदानां तामादायाथ भक्तितः । तं च नत्वा महर्षि तौ जग्मतुर्नगरी शुभाम् ॥३१९ ॥ तत्रादौ प्रेषितैर्वीरै रणाय दमितारिणा । अनन्तसेनं पुत्रं तौ युध्यमानमपश्यताम् ॥३२० ॥ १ मक्षितम् । २ भोगान् सेवमानायाः । ३ सम्बोधनमेतत् । ४ नौसदृशम् ।
कनकभीदीक्षा।
RECAUKRANUSSAIRS
॥ ५९॥