________________
त्रिषष्टिशलाकापुरुषचरिते
॥५८॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तत्रास्ति नगरं शक्रनगर्या इव सोदरम् । शिवानां मन्दिरीभूतं नामतः शिवमन्दिरम् ।। २९१ ॥ तत्र चासीन्महींनां विद्याधरमहीभुजाम् । पूज्याङ्घ्रिः कनकपूज्य इति नाना महीपतिः ॥२९२ ॥ वायुवेगाभिधानायां तस्य पल्यामसावहम् । अभूवं तनयः कीर्तिधर इत्यभिधानतः ।। २९३ ।। अभूदनिलवेगेति पत्नी मेऽन्तःपुराग्रणीः । तयैकदा सुप्तया तु त्रिस्वप्नी ददृशे निशि ।। २९४ ।। कैलासधवलो हस्ती गर्जन् मेघ इवोक्षराट् । निधिकुम्भोपमः कुम्भः स्वप्नास्तेऽमी त्रयः क्रमात् ॥२९५ ॥ तत्कालोत्फुल्लवदना पद्मिनीव निशात्यये । महादेवी महास्वप्नाख्याति स्म ममाग्रतः ॥२९६ ॥ त्रिखण्डविजयस्वामी चक्रवर्त्यर्द्धवैभवः । भावी भवत्यास्तनय इति चाख्यातवानहम् ।। २९७॥ काले च सुषुवे सूनुं सा देवी देवसंनिभम् । सर्वलक्षणसम्पूर्ण रत्नमाकरभूरिव ॥२९८ ॥ गर्भस्थेऽस्मिन् विशेषेण दमिता विद्विषो मया । तेन तस्य दमितारिरित्यभिख्यामहं व्यधाम् ।।२९९ ॥ क्रमेण ववृधे सोऽथ जग्राह च कलाः क्रमात् । क्रमेणं च प्रत्यपादि यौवनं रूपपावनम् ॥३००॥ अन्यदान्यत्र विजये विजयी विहरन् विभुः । महात्मा समवासार्षीच्छान्तिः शान्तिकरो जिनः ॥३०१ ॥ तं वन्दित्वा निषण्णोऽहमश्रौषं धर्मदेशनाम् । सद्यो विरक्तो राज्ये च दमितारिंन्यवीविशम् ॥३०२ ।। श्रीशान्तिपादमूले च प्रावाजिषमहं ततः । ग्रहणासेवनारूपे शिक्षे चाग्राहिषं तदा ॥३०३ ॥ अकार्ष वार्षिकीमत्र पर्वते प्रतिमामहम् । घातिकर्मक्षयादस्मि चाचैवोत्पन्नकेवलः ॥३०४ ॥ उत्पन्नचक्रो विजितत्रिखण्डविजयः स च । दमितारिरभूद्राजा प्रतिविष्णुर्महाबलः ॥३०५ ॥
कनकश्रीपूर्वभवः ।
॥५८ ॥
१ कल्याणानाम् ।