________________
त्रिषष्टिशलाकापुरुषचरिते
॥५७॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
मुनिरप्यब्रवीदेवमेष कल्पो न नः शुभे । यद्भिक्षार्थं गतैः क्वापि क्रियते धर्मदेशना ।। २७६ ॥ यदि ते धर्मशुश्रूषा तद्वसतौ गतस्य मे । आगच्छेः समये भद्रे जल्पित्वेति जगाम सः ॥२७७ ।। कृत्वा च पारणं तस्य स्वाध्यायं कुर्वतो मुनेः । वन्दनाथ पौरलोकः श्रीदत्ता च समाययौ ॥२७८ ॥ वन्दित्वा च यथास्थानमुपविष्टेसु तेषु सः । एवं प्रसन्नया वाचा विदधे धर्मदेशनाम् ।। २७९ ।। संसारे चतुरशीतियोनिलक्षामटन् भवान् । दैवादाप्नोति मानुष्यमन्धः स्थानमिवेप्सितम् ॥ २८० ॥ तत्रापि सर्वधर्मेषु ज्योतिष्केष्विव चन्द्रमाः । प्रधानः खलु सर्वज्ञोपज्ञधर्मः सुदुर्लभः ॥२८१ ॥ तस्मात्तत्रैव कर्तव्यो यत्नः सम्यक्त्वपूर्वकम् । संसारी येन संसारवाधूि तरति लीलया ।। २८२ ।। श्रीदत्तापि नमस्कृत्य पुरः सुव्रतपादयोः । सर्वज्ञोक्तं प्रत्यपादि धर्म सम्यक्त्वपूर्वकम् ।। २८३ ॥ वन्दित्वा सुव्रतमुनि पौरलोकोऽखिलोऽपि सः । श्रीदत्ता च प्रमुदिता ययौ निजनिकेतनम् ॥२८४ ॥ कियन्तमपि कालं सा तं धर्म प्रत्यपालयत् । तस्याः कर्मपरीणामाद्विकल्पः स्वमनस्यभूत् ॥ २८५ ।। यदिदं जिनधर्मस्य परमं कीर्त्यते फलम् । तत्कि भविष्यति न वा ममेति न हि वेम्यहम् ।। २८६ ॥ तादृग्गुरूपदेशेऽपि विचिकित्सां यदीदृशीम् । श्रीदत्ताकल्पयत्तदा दुर्वारा भवितव्यता ॥२८७ ॥ अन्यदा सत्ययशसं वन्दितुं प्रस्थिताम्बरे । सा विद्याधरयुगलं विमानस्थितमैक्षत ॥ २८८ ॥ तद्रूपमोहिता सा तु समेत्य निजवेश्मनि । विचिकित्सामनालोच्याप्रतिक्रम्य व्यपद्यत ॥ २८९ ॥ इतश्च जम्बूद्वीपेऽस्मिन् प्राग्विदेहस्य मण्डने । विजये रमणीयेऽस्ति वैताढ्यो नाम पर्वतः ॥२९० ॥ १ धर्मश्रवणेच्छा।
कनकश्रीपूर्वभवः ।
॥ ५७॥