________________
त्रिषष्टिशलाका
पुरुषचरिते ॥५६॥
श्रीदत्ताप्यभ्यधत्तैवमीदृग्दौस्थ्यानुमानतः । पूर्वजन्मन्यहं धर्मं न ह्यकार्षं मनागपि ।। २६१ ।। नित्यं दुष्कर्मदग्धाया मम त्वद्धर्मलाभगीः । मेघवृष्टिरिव ग्रीष्मतप्तयाः सानुमद्भुवः ॥ २६२ ॥ यद्यप्यस्मिन्नयोग्याहं मन्दभाग्या तथापि हि । अमोघं ते वच इति श्रेयसे किञ्चिदादिश ।। २६३ ।। यथा भवान्तरे भूयो नेदृशी स्यां तथा कुरु । त्वादृशे त्रातरि त्रातः किं किं न स्यान्मैनीषितम् ॥ २६४ ॥ इत्याकर्ण्य वचस्तस्या योग्यतां च विचार्य सः । धर्मचक्रवालं नाम तपोऽनुष्ठातुमादिशत् ॥ २६५ ॥ त्रिरात्रे चतुर्थानि सप्तत्रिंशदिह त्वया । विधातव्यानि गुर्वर्हदाराधननिलीनया ॥ २६६ ॥ प्रभावात्तपसोऽमुष्य न हि भूयो भविष्यति । अपत्यमिव वायस्यास्तवेदृक्षं भवान्तरम् ॥ २६७ ॥ तदादृत्य वचो वाचंयमाग्र्यं तं प्रणम्य च । सा जगाम निजं ग्रामं तपस्तच्चोपचक्रमे ।। २६८ ॥ तत्प्रभावात् पारणके स्वप्नेऽप्यप्राप्तपूर्वकम् । सा प्राप भोजनं स्वादु सुंदशानाटकामुखम् ॥ २६९ ॥ ततः प्रभृति सा कर्मवेतनं चाढ्यवेश्मसु । द्विगुणं त्रिगुणं चाप वस्त्राणि प्रवराणि च ।। २७० ॥ एवं संकिञ्चना किञ्चिच्छ्रीदत्ता समजायत । पूजां देवगुरुणां च यथाशक्ति ततोऽकृत ।। २७१ ।। तत्सद्मनोऽपरेद्युश्च जीर्णो वातादिताडितः । कुड्यैकदेशो न्यपतल्लेभे स्वर्णादिकं च सा ॥ २७२ ॥ तपःसमाप्तौ च तयोद्यापनं विदधे महत् । चैत्यपूजासाधुसाध्वीप्रतिलाभादिपूर्वकम् ॥ २७३ ॥ तपोऽन्तपारणदिने यावद्दिग्वीक्षणं व्यधात् । मासक्षपणकं तावत् सुव्रतर्षि ददर्श सा ॥ २७४ ॥ धन्यंमन्या ततः सा च प्रासुकान्नादिना स्वयम् । तं प्रत्यलाभयन्नत्वा धर्मं पप्रच्छ चार्हतम् ॥ २७५ ॥ १ पर्वतभुवः । २ हे रक्षक । ३ इच्छितम् । ४ मुनिश्रेष्ठं । ५ सुदशा शोभनावस्थैव नाटकं तस्य प्रस्तावनाम् । ६ सघना ।
पञ्चमं पर्व द्वितीयः
सर्गः
श्री शान्तिनाथजिनचरितम् ।
कनकश्रीपूर्वभवः ।
॥ ५६ ॥