________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५५॥
कौतुकात्तं गिरिं पश्यन् सोऽपश्यदथ चैकतः । वर्षोपवासप्रतिमास्थितं कीर्तिधरं मुनिम् ॥ २४८ ॥ कर्मणां घातिनां घातात्तदैवोत्पन्नकेवलम् । देवारब्धमहिमानं तं दृष्ट्वा मुमुदे हरिः ।। २४९ ॥ त्रिश्च प्रदक्षिणीकृत्य वन्दित्वाग्रे निषद्य च । शुश्राव देशनां तस्मात् प्राञ्जलिः सपरिच्छदः ।। २५० ॥ देशनान्ते कनकश्रीर्नत्वा पप्रच्छ तं मुनिम् । कुतः पितृवधो बन्धुविरहश्च ममेदृशः ।। २५१ ॥ आख्यन्मुनिरिति द्वीपे धातकीखण्डनामनि । अस्ति प्राग्भरते शङ्खपुरग्रामो महर्द्धिकः ।। २५२ ।। श्रीदत्ता नाम तत्रासीन्नारी दारिद्र्यपीडिता । परीकः कर्मकरणाजीविकाधृतजीविता ।। २५३ ॥ कण्डेनं पेषणं वारिवहनं गृहमार्जनम् । गृहलेपनमित्यादि सकलं दिवसं व्यधात् ॥ २५४ ॥ सिकलेऽप्यहि समपद्यत भोजनम् । आलोकनमिवोलूक्यास्तस्या ही मन्दभाग्यता ।। २५५ ॥ अपरेद्युर्भ्रमन्ती सा सादयामास पर्वतम् । सुपर्वपर्वतमिव श्रिया श्रीपर्वताभिधम् ॥ २५६ ॥ तथामलशिलासीनं गुप्तित्रयपवित्रितम् । दुःसहैरपराभूतं भूतैरिव परीषहैः ।। २५७ ।। अखण्डपञ्चसमितिं मितेतरतपः श्रियम् । निःसंगं निर्ममं शान्तं समकाञ्चनलोष्टुकम् ।। २५८ ॥ शुक्लध्याने वर्तमानं शैलशृङ्गमिव स्थिरम् । नामतः सत्ययशसं सेक्षांचक्रे महामुनिम् ॥ २५९ ॥ ॥ त्रिभिर्विशेषकम् ॥ कल्पद्रुममिवाप्रेक्ष्य सा प्रीता प्रणनाम तम् । धर्मलाभं ददौ तस्यै सोऽपि श्रेयोर्द्वदोहदम् ।। २६० ॥
१ परगृहस्य कर्मकरणेन या आजीविका तया धृतं जीवितं यया सा । २ खण्डनम् । ३ देवपर्वतं मेरुमिति यावत् । ४ अमिता तपः श्रीर्यस्य तम् । ५ समौ काञ्चनलोष्टुकी यस्य तम् । ६ श्रेय एव वृक्षस्तस्य दोहदम् ।
पञ्चमं पर्व द्वितीयः
सर्गः
श्री शान्तिनाथ जिन
चरितम् ।
कनकश्रीपूर्वभवः ।
।। ५५ ।।