________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥५४॥
एवमुक्तो दमितारिवलन् ज्वलनवद्रुषा । भ्रमयित्वामुचच्चक्रमपराजितबन्धवे ।। २३३ ।। चक्रतुम्बाग्रघातेन न्यपतन्मूर्छितो हरिः । द्राक् सुप्त इव चोत्तस्थावपराजितवीजितः ।। २३४ ॥ तदेव चक्रं पार्श्वस्थमाददे शाईपाणिना । शतारमपि तत्पाणी सहस्रारमभूच्च तत् ।। २३५ ॥ सोऽर्धचक्रधरः स्मित्वेत्यूचे प्रत्यर्धचक्रिणम् । कनकश्रीपितेति त्वं मुक्तोऽस्यद्यापि गच्छ भोः ।। २३६ ॥ अवदद्दमितारिस्तं मदस्त्रेण किमस्त्र्यसि । उत्तमर्णधनेनेवाधमर्णो धनवानरे ॥२३७ ॥ चक्रं तन्मुश्च मुञ्चेदं मुञ्च चाद्यापि पौरुषम् । अनन्तवीर्य मद्वीर्यवाओं वा लोष्टतां व्रज ।। २३८ ।। इत्युक्तोऽनन्तवीर्यस्तच्चक्रं क्रुद्धान्तकोपमः । मुमोच दमितारेश्च चकर्ताम्बुजवच्छिरः ॥२३९ ॥ उपर्यनन्तवीर्यस्य तद्वीर्यमुदिताः सुराः । पञ्चचर्णानि कुसुमान्यवर्षन्निति चोचिरे ॥ २४० ॥ भो भो विद्याधरनृपाः सर्वे शृण्वन्तु तत्पराः । विष्णुरेषोऽनन्तवीर्यो बलोऽयमपराजितः ॥२४१ ॥ एतत्पादानुपाध्वं तन्निवर्तध्वं रणाजिरात् । यस्योदयः स वन्द्यः हि यथा हीन्दुर्यथा रविः ॥२४२ ॥ ततो विद्याधरेन्द्रास्ते सर्वे नमितमौलयः । बलदेववासुदेवौ शरण्यं शरणं ययुः ।। २४३ ।। सह विद्याधरेन्द्रैस्तैः साग्रजः सप्रियो हरि । प्रचचाल विमानस्थः शुभां वरपुरी प्रति ॥ २४४ ॥ गच्छन्नुपकनकगियूंचे विद्याधरैर्हरिः । आशातनां मा स्म कार्षीः श्रीमतामर्हतामिह ।। २४५ ॥ सन्त्यत्र कनकगिरौ जिनचैत्यान्यनेकशः । यथावत्तानि वन्दित्वा वन्द्यपादा व्रजन्त्वितः ॥२४६ ॥ विमानादवतीर्याथ शामृत् सपरिच्छदः । दृशां जनितशैत्यानि तानि चैत्यान्यवन्दत ॥ २४७ ॥ १ अग्निवत् । २ क्रुद्धयमोपमः । ३ चिच्छेद । ४ सेवध्वम् । ५ मेरुसमीपम् ।
दमितारिणा सह युद्धम् ।
॥५४॥