________________
त्रिषष्टिशलाकापुरुषचरिते
॥५३॥
ततश्चानन्तवीर्योऽपि स्थैर्यमेरुरमर्षणः । ससर्ज विद्यया सद्यस्तच्चमूद्विगुणां चमूम् ।। २१९ ।। प्रावर्त्तन्त तया योद्धुं दमितारेस्ततो भटाः । असृक्पंङ्कार्द्रवपुषः सधातव इवाद्रयः ।। २२० ।। मम प्रेयानयं भूयात् कबन्धो यस्य ताण्डवी । कुन्तप्रोत ः सरति यस्तस्मै पत्येऽहमुत्सुका ॥ २२१ ॥ योऽयं वर्णयति घ्नन्तं स कदा रंस्यते मया । मुखे विशन्तं यः कुन्तं दन्तैर्धत्ते पतिः स मे ॥ २२२ ॥ य एष करिणः कुम्भमारोहति स मे धवः । भग्नास्त्रो यः शिरस्केन योद्धा तस्यास्मि किङ्करी ।। २२३ ॥ उत्खातदन्तिदन्तेन यः शस्त्री सोऽस्तु मे प्रियः । इत्यम्बरे सुरस्त्रीणामनुरागोक्तयोऽभवन् ॥ २२४ ॥ ॥ चतुर्भिः कलापकम् ॥
दमितारेरपि सैन्या विद्याशक्त्यापि दुर्मदाः । न मनागप्यभज्यन्त समरे भद्रदन्तिवत् ॥ २२५ ॥ पाञ्चजन्यं ततो जन्यनाटकाभिनये नटः । वादयामास नादेन रोदः कुक्षिभरिं हरिः ॥ २२६ ॥ तेन विष्णोर्जगज्जिष्णोः शङ्खनादेन मूर्च्छिताः । फेनायमाना न्यपतन् सापस्मारा इव द्विषः ।। २२७ ॥ ततश्च रथमारुह्य दमितारिनृपः स्वयम् । युयुधेऽनन्तवीर्येण शस्त्रैरस्त्रैश्च दैवतैः ।। २२८ ।।। शार्ङ्गिणं दुर्जयं ज्ञात्वा जनकः कनकश्रियः । सस्मार चक्रं विधुरे प्रियमित्रमिवोद्धुरम् ॥ २२९ ॥ दमितारेः करे तच्च ज्वालाशतसमाकुलम् । समापपात रभसादौर्वानल इवार्णवे ॥ २३० ॥ दमितारिरथावादीदरे तिष्ठन् मरिष्यसि । अद्यापि गच्छ मत्पुत्रीं मुक्त्वा मुक्तोऽसि दुर्मते ।। २३१ ।। अनन्तवीर्योऽपीत्यूचे त्वच्चक्रं त्वदसूनपि । त्वत्कन्यकामिवादाय व्रजिष्याम्यन्यथा न तु ॥ २३२ ॥ १ नृत्यवान् । २ जन्यं युद्धं तदैव नाटकं तस्याभिनये ।
पञ्चमं पर्व द्वितीयः
सर्गः
श्री शान्तिनाथजिनचरितम् ।
दमितारिणा
सह युद्धम् ।
॥ ५३ ॥