________________
त्रिषष्टिशलाकापुरुषचरिते
॥५२॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
%ARASHARASIRSASSSSHRSS
दमितारिस्तु तच्छ्रुत्वा कोऽसाववनिगोचरः । मर्तुकामस्तपस्वीति वदन्नित्यादिशद्भटान् ।। २०५ ॥ सभ्रातरममुं क्षुद्रं हत्वा धृत्वाथवा द्रुतम् । समानयध्वं तनयामस्मिन् फलतु दुर्नयः ॥ २०६ ॥ तेनैवमुक्ताः सुभटाः स्फुटमुद्भटवृत्तयः । अधावन्तोदस्तशस्त्रा उद्दन्ता इव दन्तिनः ।। २०७ ॥ तदापराजितानन्तर्वीर्ययोर्वीर्यशालिनोः । सीरशाप्रभृतीनि दिव्यरत्नानि जज्ञिरे ।। २०८ ॥ दमितारिभटास्ते प्रागैकशो दमितारयः । प्रजहुर्युगपच्छस्त्रैर्धाराभिरिव वारिदाः ॥२०९ ॥ ततोऽचलितयोः क्रोधात् पुरुषव्याघ्रयोस्तयोः । अनायासरणेनापि त्रेसुस्ते हरिणा इव ।। २१० ॥ श्रुत्वा पलायितांस्तांस्तु दमितारिरमर्षणः । अचालीद्गगनं कुर्वन् शस्त्रैर्वनमिवोमुर्मम् ।। २११ ॥ अरे युध्यस्व युध्यस्व तिष्ठ तिष्ठापतापत । मुञ्च मुञ्चायुधमदं मरिष्यसि मरिष्यसि ॥ २१२ ॥ एष रक्षामि ते प्राणान् मुञ्चेमा स्वामिकन्यकाम् । इत्यादि सुभटालापान् विकटाटोपभीषणान् ॥२१३ ॥ आकर्ण्य कर्णकटुकान कनकधीरजायत । आर्यपुत्रार्यपुत्रेति जल्पन्ती मोहविह्वला ॥२१४ ।।
॥त्रिभिर्विशेषकम् ॥ स्माहेत्यनन्तवीर्यस्तामम्बरे पितृडम्बरात् । किं मुह्यसि मुधा मुग्धे मण्डूकरटितादिव ।। २१५ ॥ दमितारिं ससैन्यं त्वं मैनाकमिव वज्रिणा । त्रास्यमानं मया पश्य हन्यमानमथापि वा ॥२१६ ।। एवमाश्वास्य कनकश्रियं शाहधरो युधि । पञ्चास्यस्तर्जित इव ववले सापराजितः ॥२१७ ॥ कोटिशो वैरिकट्टाका दमितारेर्महाभटाः । शाहिणं वेष्टयामासुः प्रदीपं शलभा इव ।। २१८ ॥ १ वराकः । २ उद्भटोद्धता वृत्तिर्येषां ते । ३ उदधिकाद्रुमा यस्मिस्तत् । ४ आगच्छागच्छ । ५ पितुराडम्बरेण । ६ सिंहः । ७ वैरिनाशकाः ।
दमितारिणा सह युद्धम् ।
॥५२ ।।