________________
पञ्चमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते ॥४९॥
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
कियद्वा वर्ण्यतेऽस्माभिः स महात्माल्पबुद्धिभिः । तत्तुल्यो नापरः कोऽपि सुरासुरनरेष्वपि ॥१६१ ॥
॥त्रिभिर्विशेषकम् ॥ कनकश्रीस्तमाकर्ण्य दृष्ट्वेव पुरतः स्थितम् । वाताहतेव सरसी बभूवोत्कलिकावती ॥१६२ ॥ रोमाञ्चव्याजतो भिन्ना साक्षात् स्मरशरैरिव । पाञ्चालिकेव निःस्पन्दा सा दध्याविति चेतसि ॥ १६३ ॥ धन्यः स विषयो धन्या सा पूर्धन्या च सा प्रजा । धन्यः स स्त्रीजनोऽनन्तवीर्यो येषां स नायकः ॥१६४ ॥ कुमुद्वतीं मोदयते दूरस्थोऽपि करैः शशी । शिखण्डिनीस्तांडवयत्यम्बरस्थोऽपि वारिदः ॥१६५ ॥ उपपन्नमिदं तेषां हन्त दैवानुकूल्यतः । अनन्तवीर्ये मयि च कीदृग्दैवं भविष्यति ॥१६६ ॥ दूरे तस्य पतिभावो दृष्टव्योऽपि कथं नु सः । सिद्धौ मनोरथस्यास्य सखापि खलु दुर्लभः ॥ १६७ ॥ चिन्ता प्रपन्नां तामेवं विलोक्य कनकश्रियम् । इङ्गित्ताकारविदुर एवमूचेऽपराजितः ॥१६८ ॥ श्रुत्वापराजितस्यानुजन्मानं मन्मुखादपि । किं ताम्यसि सशल्येव मुग्धे किं त्वं दिदृक्षसे ।। १६९ ॥ कनकश्रीरशूमुखी पद्मिनीव तुषारिणी । दीनदीनैवमवदत् स्वरभेदक्षताक्षरम् ॥ १७० । । आदित्सेयं करेणेन्दौ पद्या जिगमिषा दिवि । दोभ्यां तितीर्षा जलधौ दिदृक्षा तत्र मे खलु ।। १७१ ॥ शुभाधिनाथः सुभगः स मया मन्दभाग्यया । कथं दृग्गोचरीकार्यः कष्टं को मे मनोरथः ॥ १७२ ।। ज्येष्ठा पुंनट्युवाचैवं भद्रे तं चेद्दिदृक्षसे । तन्मुग्धेऽलं विषादेन दर्शयाम्यद्य तं तव ।। १७३ ॥ विद्याशक्त्यानन्तवीर्य तं च तं चापराजितम् । अत्रानये वन इव वसन्तमलयानिलौ ।। १७४ ॥ १ उत्कण्ठिता । २ पुरी । ३ मयूरीः । ४ आदातुमिच्छा ।
कनकभीहरणम् ।
॥४९॥