________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
॥४८॥
राकाशशाङ्कवदनां त्रस्यदेणीविलोचनाम् । पक्वबिम्बाधरां कम्बुकण्ठी बिसलताभुजाम् ।। १४८ ॥ स्वर्णकुम्भोपमकुचां वज्रमध्यकृशोदरीम् । वापीगंभीरनाभीकां पुलिनाभकटीतटाम् ।। १४९ ॥ करभोरूं मृगीजां पद्मोपमकरक्रमाम् । लावण्यजलमग्नाङ्गी मधुरालापशालिनीम् ।। १५० ।। शिरीषसुकुमाराङ्गी कुमारी प्राप्तयौवनाम् । दृष्ट्वा कपटचेट्यौ ते मधुरालापपूर्वकम् ।। १५१ ॥ भूयो भूयो दर्शयित्वा शिक्षयामासतुर्भृशम् । तन्नाटकं साभिनयं सर्व निर्वहणावधि ॥ १५२ ॥
॥पञ्चभिः कुलकम् ॥ मध्ये मध्ये नाटकस्यानन्तवीर्य महाभुजम् । ते चेट्यौ जगतुः कामं रूपशौर्यादिभिर्गुणैः ।। १५३ ॥ कनकश्रीरथापृच्छत् क एष पुरुषोत्तमः । हे युवत्यौ युवाभ्यां यो गीयतेऽत्र क्षणे क्षणे ।। १५४ ॥ अथापराजितो मायाचेटी स्मित्वेदमब्रवीत् । शुभानने शुभेत्यस्ति विजयेऽस्मिन् महापुरी ॥ १५५ ।। तस्यां च नाना स्तिमितसागरो गुणसागरः । दिवाकरः प्रतापेन बभूव वसुधाधवः ॥१५६ ॥ जज्ञे महात्मनस्तस्य तनयो विनयैकभूः । ज्येष्ठोऽपराजितो नाम विपक्षरपराजितः ॥१५७ ॥ कनिष्ठोऽनन्तवीर्योऽभूदकनिष्ठोऽमलैर्गुणैः । रूपेण जितकन्दर्पो द्विड्दर्पग्रन्थिदारणः ।। १५८ ॥ स वदान्यः सत्यसन्धः शरणागतवत्सलः । नागराजायतभुजः शिलापृथुभुजान्तरः ॥१५९ ॥ वासागारं श्रिय इव भुवोऽप्याधारभूरिव । आश्रिताम्भोजमार्तण्डो दाक्षिण्यक्षीरसागरः ।। १६० ।। १ त्रस्यन्ती या मृगी तत्सदृशे लोचने यस्याः । २ निर्वहणः नाटकस्य पञ्चमः सन्धिः । ३ शत्रुभिः । ४ सत्या सन्या प्रतिज्ञा यस्य सः ।
कनकभीहरणम् ।
॥४८॥