________________
त्रिषष्टिशलाकापुरुषचरिते ॥५०॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
कनकीर्बभाषेऽथ सर्व संभवति त्वयि । पारिपार्श्विक्यसि यतस्तयोर्गुणसमुद्रयोः ॥ १७५ ॥ मन्येऽनुकूलं मे दैवमेवं यदभिभाषसे । त्वन्मुखेऽवातरन्नूनं कापि मे कुलदेवता ॥ १७६ ॥ अनुतिष्ठात्मनो वाचमधुनैव कलावति । तादृशां परिवारोऽपि मिथ्या न खलु भाषते ॥ १७७ ॥ अथाविश्चक्रतुः स्वं स्वं रूपं रूपमनोभवौ । सद्योऽपराजितानन्तवीर्यों तुष्टाविवामरौ ॥ १७८ ॥ ऊचेऽपराजितो भद्रे कीर्तितो यो मयाद्य सः । मद्भातानन्तवीर्योऽयं संवदत्येष वा न हि ॥ १७९ ॥ स्तोकमेव मयाख्यातमस्य रूपादिवैभवम् । वाचामगोचरस्तत्तु गोचरीकुरु चक्षुषोः ॥१८० ॥ आवेगविस्मयव्रीडाप्रमोदमदचापलैः । तद्दर्शनाद्दमितारिकन्या युगपदानशे ।। १८१ ॥ अपराजितपादानां सद्यः श्वशुरमानिनी । उत्तरीयेण नीरङ्गी तन्वङ्गी विदधेऽथ सा ।। १८२ ॥ आसीदनन्तवीर्योऽपि स्मरमेघमहोदयात् । रोमाञ्चदन्तुरवपुः कदम्ब इव पुष्पितः ।। १८३ ॥ उत्सृज्य सहज मानं मन्दाक्षं च मृगेक्षणा । स्वयं दूतित्वमालम्ब्यानन्तवीर्यमदोऽवदत् ॥१८४ ॥ वैताढ्यपर्वतः क्वार्य शुभाख्या सा पुरी क्व च । नारदाच्च क्व तातस्य तच्चेटीनाटकश्रुतिः ॥१८५ ॥ युष्मत्पार्वे च तातेन तच्चेटीयाचनं क्व च । चेटिकारूपधरयोर्युवयोः क्वेह चार्गतिः ॥१८६ ॥ क्व वा नाटकशिक्षायै युवयोरर्पितास्म्यहम् । आर्यपुत्र तवार्येण कवा त्वगुणवर्णनम् ॥१८७ ॥ क्व वा युवाभ्यां सद्योऽपि साक्षात्करणमात्मनः । एतत्सर्वमसंभाव्यं मद्भाग्योपचयादभूत् ।। १८८ ॥ नाट्याचार्यो यथा त्वं मे त्वमेव हि पतिस्तथा । अतः परं ते मद्धत्या न चेत्पासि मनोभवात् ।।१८९ ॥ १ लज्जाम् । २ आगमनम् । ३ उपचयोवृद्धिः । ४ मद्घातः ।
कनकश्रीहरणम् ।
॥५०॥