________________
त्रिषष्टिशलाका
पुरुषचरिते
॥४३॥
विजयार्धेऽत्र यत्किञ्चिदद्भुतं वस्तु जायते । तत्सर्वं राजराजस्य दमितारेरसंशयम् ॥ ८४ ॥ उभे नाटककारिण्यौ प्रसिद्धे तव चेटिके । बर्बरी च किराती च प्रेष्यतां दमितारये ।। ८५ ।। स्वाधीनं तस्य चेट्यादि सर्वराज्यस्य यः पतिः । दीयमाने हि सदने किं भवत्यश्वकः पृथक् ।। ८६ ।। जगादानन्तवीर्योऽपि गच्छ त्वं दूत सम्प्रति । आलोच्य किञ्चिदचिरात् प्रेषयिष्यामि चेटिके ॥ ८७ ॥ इत्युक्तो विष्णुना दूतो मुदितोऽभ्येत्य सत्वरम् । प्रयोजनं कृतप्रायं शशंस दमितारये ।। ८८ ।। कुण्डाविव च्छन्नवह्नी गूढामर्षावितश्च तौ । मन्त्रयामासतुरुभावपराजितशार्ङ्गिणी ॥ ८९ ॥ अस्मानाकाशयानेन विद्यासिद्धिबलेन च । एवमाज्ञापयति स नास्मत्तस्याधिकं परम् ॥ ९० ॥ विद्याधरेण सुहृदा विद्या दत्ताः पुरा हि याः । साम्प्रतं साधयावस्तास्ततः को नौ तपस्व्यसौ ।। ९१ ॥ इत्यचिन्तयतां यावदुभौ तौ भ्रातरौ रहः । प्रज्ञप्त्याद्यास्तावदागुर्विद्याः सङ्केतिता इव ।। ९२ ।। तडित्तेजः समोद्योता नानालङ्कारभूषिताः । विचित्रदिव्यवसना जजल्पुः प्राञ्जलीति ताः ।। ९३ ॥ ताताः स्मो वयं विद्या याः सिसाधयिषू युवाम् । पूर्वजन्मनि सिद्धास्तदिदानीमप्युपस्थिताः ॥ ९४ ॥ युष्मद्वपुषि संक्रान्तिं मन्त्रास्त्र इव देवताः । करिष्यामो महाभागौ समादिशतमद्य नः ।। ९५ ।। एवमस्त्विति तद्वाचा तदात्मत्वं तदङ्गयोः । विद्याः प्रपेदिरे पूर्वापराब्ध्योरिव निम्नगाः ।। ९६ ।। निसर्गतोऽपि बलिनौ विद्यासिद्ध्या तया पुनः । तावभूतामभ्यधिकं सिंहौ संवर्मिताविव ।। ९७ ।। पूजां तासां च विद्यानां गन्धैर्माल्यैर्मनोरमैः । चक्रतुस्तौ न लङ्घन्ते पूज्यपूजां विवेकिनः ॥ ९८ ॥ १ रहसि । २ कृतसङ्केत्ता इव । ३ यथा मन्त्रास्त्रे देवताः संक्रमणं कुर्वति तथा ।
पञ्चमं पर्व द्वितीयः
सर्गः
श्री शान्तिनाथ जन
चरितम् ।
प्रज्ञप्त्यादिविद्याः
स्वयंसिद्धाः ।
11 83 11