________________
त्रिषष्टिशलाका
पुरुषचरिते
॥४२ ॥
तत्र सिंहासनं त्यक्त्वा स्ववृष्यां स उपाविशत् । भक्तिमेव हि काङ्क्षन्ति न हि वस्तूनि तादृशाः ।। ६९ ।। तं नारदो जगादैवं त्रिखण्डविजयेश्वर । विद्याधराधिनाथाय स्वस्ति तुभ्यं महौजसे ॥ ७० ॥ राज्ये राष्ट्रे पुरे गोत्रे सम्बन्धिषु परिग्रहे । अन्यत्रापि भवगृह्ये सर्वत्र कुशलं नृप ॥ ७१ ॥ दमितारिरदोऽवादीत् सर्वत्र कुशलं मम । विशेषतोऽतः परं तु मुने भवदनुग्रहात् ।। ७२ ।। भवन्तं किं तु पृच्छामि स्वच्छंदं व्योमयायिना । अदृष्टपूर्वं किं दृष्टमाश्चर्यं भवता क्वचित् ॥ ७३ ॥ सिद्धो मनोरथो मेऽसौ चिन्तयन्निति नारदः । हर्षोत्फुल्लकपोलाक्षो दमितारिमदोऽवदत् ॥ ७४ ॥ अद्यैव दृष्टमस्माभिः सुरलोकेऽप्यसंभवि । आश्चर्यमेकं धरणीपरिभ्रमणजं फलम् ॥ ७५ ॥ शुभाख्यायां महापुर्यां क्रीडयाद्य गतोऽस्म्यहम् । आस्थानस्थमपश्यं चानन्तवीर्यं महीपतिम् ॥ ७६ ॥ तस्याग्रतो बर्बरिकाकिरातीभ्यां च नाटकम् । तत्राभिनीयमानं स्म पश्याम्याश्चर्यकारणम् ।। ७७ ।। उभौ लोकौ संचरामि द्यां भूमिं च कुतूहलात् । न च क्वचिन्मया दृष्ट्मीदृनाटकमद्भुतम् ।। ७८ ।। यथा हि सौधर्मे विजयार्धेऽत्र भूपते । आश्चर्यभूतवस्तूनां तथा त्वमसि भाजनम् ॥ ७९ ॥ किं विद्याभिः किमोजोभिः किं तेजोभिः किमाज्ञया । किं राज्येन न यद्यत्र तदानयसि नाटकम् ॥ ८० ॥ इत्युदित्वा नारदमुनिरुप्तबीज इवावनौ । तत्र स्वार्थं संक्रमय्य नभसा रभसाद्ययौ ।। ८१ ।। त्रिखण्डविजयैश्वर्यगर्वितः प्राहिणोदथ । दमितारिनृपो दूतमपराजितबन्धवे ॥ ८२ ॥ शुभाख्यां स पुरीं गत्वानन्तवीर्यं सहाग्रजम् । नमश्चक्रे चाभाषिष्ट विशिष्टवचनक्रमः ॥ ८३ ॥ १ उप्तं बीजं कलिरूपं येन सः ।
पञ्चमं पर्व
द्वितीयः सर्गः
श्री शान्तिनाथजिन
चरितम् |
दमितारिनृपप्रेरणम् ।
।। ४२ ।।