________________
त्रिषष्टिशलाकापुरुषचरिते ॥४१॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
गायन्त्यावथ नृत्यन्त्यौ रम्भादिभ्योऽपि शोभनम् । रञ्जयामासतुश्चित्तं ते बलानन्तवीर्ययोः ॥ ५६ ।। आस्थानीमन्यदास्थाय तालाङ्कगरुडध्वजौ । प्रावर्तेतां कारयितुं ताभ्यां नाटकमुत्तमम् ।। ५७ ॥ तदानीं च चलच्चूलो वृषीपाणिस्त्रिदण्डभृत् । साक्षसूत्रब्रह्मसूत्रः कौपीनी पीनकुक्षिकः ।। ५८ ॥ श्वेतवर्णो राजहंस इव यायी विहायसा । सौवर्णपादुकान्यस्तपादो धृतकमण्डलुः ॥५९ ॥ संचरन्नखिले लोके कलहालोककौतुकी । आस्थान्यामाययौ तस्यां नारदोऽस्थैर्यपारदः ।।६० ॥
॥त्रिभिर्विशेषकम् ।। रामविष्णू बर्बरिकाकिरातीनाटकेक्षणे । व्याक्षिप्तमनसौ तं च नासभाजयतामृषिम् ।। ६१ ॥ कुपितो नारदोऽप्येवं चिंतयामास चेतसि । मामप्यभ्यागतं नैवाभ्युदस्थातां मदादिमौ ।। ६२ ।। नाटकं बह्नमंसातामाश्चेटीमात्रयोरिमौ । आयातं हीनजनवन्मां पुनः पश्यतोऽपि न ।। ६३ ।। प्रेष्ठचेटीकयोश्चेटप्रष्ठयोरिव तद्रुतम् । अवज्ञायाः फलमहं दर्शयिष्यामि सम्प्रति ।। ६४ ॥ चिन्तयित्वेति सहसा नारदः पवमानवत् । जगाम वैताह्यगिरौ दमितारिनृपान्तिके ।।६५ ॥ विद्याधरेन्द्रो दमितारिरपीन्द्र इव स्वश्रिया । विद्याधरधराधीशैः शतशः परिवारितः ॥६६ ।। सिंहासनं पादुके च त्यक्त्वा सद्यः ससंभ्रमः । अभ्युत्तस्थौ समायाते नारदे दूरतोऽपि हि ॥७॥ तत्र सिंहासनं तस्मै दमितारिरदापयत् । प्रतिपत्तिस्तादृशानामृषीणां कियतीयती ॥१८॥ १ चलच्छिखः ।२ वतिनां यदासनं सा वृषीत्युच्यते ।३ कौपीनवान् । ४ सभायाम् । ५ न सत्कारमकुरुताम् । ६ प्रेष्ठेऽतिप्रिये चेट्यौ दास्यौ ययोस्तयोः । ७ श्रेष्ठदासयोरिव । ८ वायुवत् ।
नारदावज्ञा।
॥४१॥