________________
त्रिषष्टिशलाकापुरुषचरिते ॥४०॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
एलालवंगकक्कोललवलीगन्धवाहिभिः । मरुद्भिः कृतसैरंध्रीकर्मकं शर्मकारिभिः ॥ ४२ ॥ प्रविवेश तदुद्यानं भूमिष्ठमिव नन्दनम् । राजा प्रमोदस्तिमितेक्षणः स्तिमितसागरः ।। ४३ ।।
॥चतुर्भिः कलापकम् । स व्यश्राम्यत् क्षणं यावदपश्यत्तावदग्रतः । अशोकमूले ध्यानस्थं तं मुनि प्रतिमाधरम् ।। ४४ ॥ भक्त्योल्लसितरोमाञ्चोऽतिशैत्यादिव तत्क्षणम् । तं प्रदक्षिणयामास ववन्दे च मुनि नृपः ।। ४५ ॥ पारयित्या मुनिर्व्यानं धर्मलाभाशिषं ददौ । स्वकार्यमारब्धमपि सन्तोऽन्यार्थे त्यजन्ति हि ।। ४६ ।। ततः स्वयंप्रभमुनिर्विदधे धर्मदेशनाम् । तैस्तैर्निदर्शनैः श्रोतुः प्रत्यक्षानुभवामिव ।। ४७ ॥ श्रुत्वा तां देशनां राजा प्रतिबुद्धः क्षणादपि । धाग्नि गत्वानन्तवीर्य निजराज्ये न्यवीविशत् ।। ४८ ।। कृतनिष्क्रमणोऽनन्तवीर्येण च बलेन च । उपस्वयंप्रभं गत्वा पर्यव्राजीन्नरेश्वरः ॥ ४९ ।। परीषहान् सहमानोऽतिमहादुःसहानपि । स सम्यक् पालयामास मूलोत्तरगुणाश्चिरम् ।। ५० ॥ पर्यन्तकाले मनसा श्रामण्यं स विराद्धवान् । विपद्य च समुत्पेदे चमरेन्द्रोऽसुराधिपः ॥५१॥ अनन्तवीर्योऽप्यशिषन्मेदिनी सापराजितः । निःसीमपौरुषधनः सुरैरप्यपराजितः ।। ५२ ॥ अन्येधुः केनचिद्विद्याधरेण समभूत्तयोः । मैत्री पवित्रा संसर्गः सद्भिरेव सतां यतः ।। ५३ ।। ताभ्यां सोऽथ महाविद्या विद्याधरवरो ददौ । साधयेथामिति चोपदिश्य वैताळ्यमभ्यगात् ।। ५४ ।। बर्बरीति किरातीति नानोभे चेटिके तयोः । अभूतां गीतनाट्यादिकलाकौशलशोभिते ।। ५५ ॥ १ प्रमोदेन हर्षेण स्तिमिते निश्चले ईक्षणे नेत्रे यस्य सः । २ चारित्रम् ।३ अपराजितेन भ्रात्रा सहितः ।
स्तिमितसागरस्य दीक्षा।
॥ ४० ॥