________________
त्रिषष्टिशलाकापुरुषचरिते
॥३९॥
पञ्चमं पर्व द्वितीयः सर्गः श्रीशान्तिनाथजिनचरितम् ।
धूमध्वजश्च निधूमो ज्वालापल्लविताम्बरः । दृशोः सुखकरालोकः सप्तमश्चेति सप्त ते ।। २७ ।। सुप्तोत्थिता च सा देवी स्वप्नान् पत्ये शशंस तान् । विष्णुस्ते तनयो भावीत्याख्यात् स्वप्नफलं च सः ॥२८॥ समये सुषुवे साथ तनयं नयनोत्सवम् । नीलोत्पलदलश्यामं देवी द्यौरिव वारिदम् ॥ २९ ॥ अनन्तवीर्य इत्याख्यां महावीर्यस्य भूपतिः । महोत्सवेन विदधेऽनुद्धरातनुजन्मनः ।। ३०॥ पद्मात्पद्मे हंस इव सोऽवाद) दिवानिशम् । धात्रीणां संचरन् वृद्धिमाससाद शनैः शनैः ॥ ३१ ॥ स वर्धिष्णुः क्रमाद्भात्रा ज्यायसा सवया इव । रमणीयाकृती रेमे रमणीजनवीक्षितः ॥ ३२ ॥ श्वेतश्यामशरीरौ तौ भेजाते भ्रातरावुभौ । एकत्र मिलितौ शरद्घनप्रावृड्यनाविव ।। ३३ ।। लीलयैव हि शास्त्राणि तौ सर्वाण्यधिजग्मतुः । विद्या हि प्राग्भवाभ्यस्ताः स्वयमायान्ति तादृशाम् ।।३४ ॥ अभ्यस्यतः स्म शास्त्राणि तथा तौ गुरुसन्निधौ । यथोपजीव्यविज्ञानौ गुरोरपि बभूवतुः ॥ ३५ ॥ मन्त्रतन्त्रादिरहितं कामिनीजनकार्मणम् । प्रपेदाते यौवनं तौ श्रियो वासगृहोपमौ ॥३६ ॥ अन्येधुश्चाययौ तत्र मुनि म स्वयंप्रभः । नानातिशयसंपन्नस्तस्थौ चोपवने क्वचित् ।।३७ ।। इतश्च निर्ययौ पुर्या राजा स्तिमितसागरः । वाहान् वाहयितुं वाहकेल्यां तत्केलिकोविदः ॥ ३८ ॥ अशूकलान् शूकलांश्च वाहयित्वा तुरङ्गमान् । स वाहकेलीरेवन्तः श्रान्तस्तद्वनमभ्यगात् ।। ३९ ।। विश्रान्तजीमूतमिव बहुलैस्तरुणाङ्घिपैः । कुल्याभिर्निर्झरोगारिगिरिप्रस्थानुहारकम् ।। ४० ॥ . तालवृन्तधरमिवाध्वगानां कदलीदलैः । सर्वत्र शाद्वलोकिं बद्धं मरकतैरिव ॥४१॥ १ अमिः । २ अश्वक्रीडायां रेवन्तसमानः । ३ विश्रान्ता मेघा यस्मिंस्तदिव । ४ प्रस्थः सानुः ।
अमिततेजसः बलदेवत्वेनोत्पत्तिः ।
|३९ ॥