________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ४४ ॥
अत्रान्तरे पुनर्दूतो निर्दिष्टो दमितारिणा । वेगादुपेत्य साक्षेपं पर्यभाषिष्ट ताविति ।। ९९ ।। भो भो युवाभ्यां युवभ्यां खड्गिभ्यामिव संप्रति । अज्ञानत्वात्समारब्धः कोऽयं स्वामिनि विप्लवः ॥ १०० ॥ चेटिके प्रेषयिष्याव इत्युक्त्वा प्रेषिते न यत् । मुमूर्षु किं युवां मूर्खो ज्ञातः सोऽमर्षणो न किम् ॥ १०१ ॥ कृत्याद्वयमिदं वां हि चेटीव्याजादुपस्थितम् । समूलौ वामनुन्मूल्य मन्ये न खलु यास्यति ।। १०२ ।। मा युवां बहुदौ भूतं दत्तमद्यैव चेटिके । ग्रहीष्यत्यन्यथा स्वामी ते च राज्यश्रियं च वाम् ।। १०३ ॥ गूढकोपः प्रभविष्णुरपि विष्णुस्ततः सुधीः । स्मितज्योत्स्नास्तबकिताधरः साग्नेत्युवाच तम् ॥ १०४ ॥ रत्नैर्महार्घेद्रविणैः प्रचुरैः कुञ्जरैर्हयैः । प्राभृतीकृत्य संतोष्यो दमितारिनृपेश्वरः ।। १०५ ।। दमितारिः स चेदाभ्यां चेटीभ्यामपि तुष्यति । ते गृहीत्वा तदद्यैव गच्छ त्वमपरेऽहनि ।। १०६ । इत्युक्तो विष्णुना दत्तावासे दूतो जगाम सः । मन्यमानो दूतकलां कृतकृत्यामिवात्मनः ॥ १०७ ॥ गृहभारमिव स्तम्भेष्वनोभारमिवक्षसु । आरोपयामासतुस्तौ राज्यभारं सुमन्त्रिषु ॥ १०८ ॥ कीदृक्षो दमितारिः स दृष्टव्य इति कौतुकात् । तौ विद्यया बर्बरिका किरात्यभवतां ततः ।। १०९ ।। अद्यापराजितानन्तवीर्याभ्यां दमितारये । प्रहिते स्त इति गत्वा पुंश्चेट्यौ दूतमूचतुः ।। ११० ।। चेटिकाभ्यां समं ताभ्यां दूतः प्रमुदितो ययौ । उपेत्य वैताढ्यगिरौ दमितारिं व्यजिज्ञपत् ॥ १११ ॥ असुराश्चमरस्येव शक्रस्येव दिवौकसः । पन्नगा धरणस्येव गरुडस्येव पक्षिणः ।। ११२ ।
१ सतिरस्कारं यथा तथा । २ अवमानः । ३ कृत्या देवतानामसद्देवताविशेषः राक्षसी । ४ समर्थोऽपि । ५ साामवाक्येन । ६ धनैः । ७ वृषेषु शकटभारमिव । ८ धरणेन्द्रस्य
पञ्चमं पर्व
द्वितीयः
सर्गः
श्री शान्ति-नाथजिनचरितम् ।
प्रज्ञप्त्यादिविद्याः
स्वयंसिद्धाः ।
1188 11