________________
त्रिषष्टिशलाकापुरुषचरिते ||३५॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
मुनी प्रदक्षिणीकृत्य वन्दित्वा च नृपोत्तमौ । श्राद्धौ शुश्रुवतुर्धर्मदेशनां पुरतस्तयोः ।। ४७५ ।। सदा सविधवत्यैव मृत्युस्तेनेह देहिनाम् । पशूनां सौनिकगृहेष्विव स्याज्जीवितं कियत् ॥ ४७६ ॥ क्षणिक क्षणिकावत्तज्जानन्तोऽपि न कुर्वते । धर्मोद्यम मानवा यत्तदहो मोहजृम्भितम् ।। ४७७ ॥ मोहः खलु महाशत्रुर्जन्मतो मरणावधि । आत्मनीनं नृणां धर्म मूलादपि निकृन्तति ॥ ४७८ ।। हित्वा मोहं सर्वथा तन्मय॑जन्मफलेच्छया । कार्यो धर्मः कथंचिद्धि भूयः स्याज्जन्म मानुषम् ॥ ४७९ ॥ इत्याकर्ण्य स्वमायुस्ताववशिष्टमपृच्छताम् । षड्विंशतिं दिनान्यायुः शेष चाचख्यतुर्मुनी ॥ ४८० ।। अमोघं तद्वचो ज्ञात्वा नरविद्याधरेश्वरौ । महानुतापनिर्वेदगर्भमेवमथोचतुः ।। ४८१ ॥ सदा निद्रालुभिरिव सदा पीतमदैरिव । सदा बाल्यवद्भिरिव सदा मूर्छा गतैरिव ॥ ४८२ ॥ सदापस्मारिभिरिव हहाऽस्माभिः प्रमादिभिः । विफलं क्षपितं जन्मारण्यजातीप्रसूनवत् ।। ४८३ ।।
॥युग्मम् ॥ अथ तौ चारणमुनी प्रत्यबोधयतामिति । विषादेनालमद्यापि प्रव्रज्या युज्यते हि वाम् ।। ४८४ ॥ अन्तेऽप्यात्ता परिव्रज्या शुभव्रज्यानिबन्धनम् । कौमुदी हि निशान्तेऽपि कुमुदामोदकारणम् ।।४८५ ॥ एवं ताभ्यां बोधितौ श्रीविजयामिततेजसौ । उपेयतुर्निजनिज हयं धर्म्यक्रियोत्सुकौ ॥ ४८६ ।। तत्र चैत्येषु चक्राते परमष्टाहिकोत्सवम् । दीनानाथादिजन्तूनां ददतश्च यथारुचि ।। ४८७ ॥ १ समीपवर्ती । २ चाण्डालगृहेषु । ३ विद्युत् । ४ आत्महितम् । ५ छिनत्ति । ६ कल्याणसमूहस्य कारणम् ।
मुनिदेशना।
॥३५ ॥