________________
पञ्चम पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥३६॥
राज्यं स्वपुत्रयोय॑स्योपाददाते नरेश्वरौ । ततोऽभिनन्दनजगन्नन्दनयोः पुरो व्रतम् ॥ ४८८ ॥ पादपोपगमं नामानशनं तौ च चक्रतुः । तदानीं च श्रीविजयः सस्मार पितरं निजम् ।। ४८९ ।। तदृद्धिमधिकां स्वां तु ऋद्धि हीनां विचिन्तयन् । भूयासं तादृगेवाहं निदानमिति चाकरोत् ।। ४९० ॥ कृताकृतनिदानौ श्रीविजयामिततेजसौ । विपद्य प्राणते कल्पे बभूवतुरथामरौ ।। ४९१ ॥ विमाने सुस्थितावर्ते नन्दितावर्तके च तौ । मणिचूलदिव्यचूलनामानौ तस्थतुः सुखम् ।। ४९२ ।।
अमरौ रतिसागरावगाढावायुर्विंशतिसागरोपमं तौ । अतिवाहयतः स्म सौख्यमग्नौ मनसा सिद्धसमीहितार्थलाभौ ।। ४९३ ।।
सर्गः
श्रीशान्तिनाथजिनचरितम् ।
श्रीविजयामिततेजसोर्दीक्षा ।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये पञ्चमे पर्वणि श्री शान्तिनाथदेवस्य श्रीषेणादिकभववर्णनो नाम
प्रथमः सर्गः ।
॥३६॥
१ तस्य पितुर्ऋद्धिम् ।