________________
त्रिषष्टिशलाकापुरुषचरिते ॥३४॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
वर्षे वर्षे चक्रतुः श्रीविजयामिततेजसौ । श्रीमतामहतां चैत्येषूच्चकैर्महिमत्रयम् ।। ४६० ।। तत्र चैत्रे चाश्विने चाष्टाहिको महिमोत्सवौ । देवा नन्दीश्वरेऽन्ये तु स्वस्वचैत्येषु कुर्वते ॥ ४६१ ।। ततश्चैत्राश्विनयोस्तौ त्रैपृष्ठ्यमिततेजसौ । स्वस्वचैत्येषु चक्राते परमष्टाहिकोत्सवम् ।। ४६२ ।। महिमानं तृतीयं तु सीमाद्रौ तावशाश्वतम् । नाभेयचैत्ये च बलज्ञानभूमौ च चक्रतुः ॥ ४६३ ॥ अन्येधुरमिततेजाः सुमेरौ भानुमानिव । स्थितः स्वहर्ये प्रकृतिपुरुषैः परिवारितः ॥ ४६४ ॥ तपसाशोषिताशेषमांसशोणितसंचयम् । ग्रीष्मर्तुनेव संशुष्कपङ्कवारिसरोवरम् ॥ ४६५ ।। दृश्यमानशिराजालमुद्वेलमिव सागरम् । जीर्णवंशकटमिव किटत्किटितसंधिकम् ॥ ४६६ ।। व्यक्तापशुमपि क्षामकुक्षिमप्यबिभीषणम् । दीप्यमानं तपस्तेजः सम्पदा निरवद्यया ॥ ४६७ ॥ मासक्षपणकं कश्चिन्मुनि भिक्षार्थमागतम् । धर्मादर्श ददर्शकं प्रियैकजिनदर्शनः ॥ ४६८ ॥ अभ्युत्थायामिततेजाः कृत्वा च त्रिःप्रदक्षिणाम् । वन्दित्वा शुद्धैरन्नाद्यैस्तं मुनि प्रत्यलाभयत् ॥ ४६९ ॥ तदा च तत्र सत्पात्रान्नादिदानप्रभावतः । वसुधाराप्रभृतीनि पञ्चदिव्यानि जज्ञिरे ।। ४७० ॥ धर्म्यया चेष्टयैवं श्रीविजयामिततेजसोः । जग्मुर्वर्षसहस्राणि भूयासि सुखमग्नयोः ॥ ४७१ ॥ अन्यदा नन्दनवने वन्दितुं शाश्वतार्हतः । संभूयामिततेजःश्रीविजयावीयतुर्नुपौ ॥ ४७२ ।। शाश्वतार्हद्वन्दनां तौ कृत्वा यावत् कुतूहलात् । भ्रान्त्वा निरीक्षांचक्राते नन्दनोद्यानभूमिकाम् ।। ४७३ ।। तावद्ददृशतुः स्वर्णशिलास्थौ चारणोत्तमौ । महर्षी विपुलमतिमहामत्यभिधानको ।। ४७४ ।। १ अनियमम् । २ प्रधानपुरुषैः । ३ शिराजाल स्नायुसमूहः । ४ ध्वनेरनुकरणमेतत् । ५ "प्रिये च निचदशनात्” इति पाठान्तरम् ।
RASSASSASARS
श्रीविजयामिततेजोधर्म कृत्यम् ।
॥३४ ॥