________________
त्रिषष्टिशलाकापुरुषचरिते ॥३३॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
आयतनेष्वार्हतेषु प्रकृष्टाष्टाहिकोत्सवान् । कुर्वाणावनणुश्रीकौ शक्रेशानाविवानिशम् ॥ ४४६ ।। एषणीयकल्पनीयप्रासुकैर्वस्तुभिः सदा । कृतार्थयन्तौ स्वामृद्धिं साधूनामुपढौकितैः ।। ४४७ ।। अनेकचिन्तासंतानग्रीष्मसंतापितात्मनाम् । अर्ति हरन्तावार्तानां पूर्वानिलघनाविव ।। ४४८ ।। श्रुतस्कन्धरहस्यानि श्रुतानि गुरुसंनिधौ । भावयन्तौ सुधीप्रष्ठावात्मगोष्ठ्यां दिवानिशम् ।। ४४९ ॥ कुतीर्थगोष्ठीमुज्झन्तौ छायां बैभीतकीमिव । कुपथ्यवत्त्यजन्तौ च व्यसनान्यखिलान्यपि ।। ४५० ।। सुखान्यनुभवन्तौ च क्षणे वैषयिकाण्यपि । राज्यचिन्तामप्यनघां विदधानौ यथाक्षणम् ।। ४५१ ॥ स्वे स्वे पुरेऽवतिष्ठन्तावेकत्र मनसा पुनः । कालं व्यतीयतुस्तौ श्रीविजयामिततेजसौ ।। ४५२ ।।
॥सप्तभिः कुलकम् ।। अन्येधुरमिततेजाश्चैत्यान्ते पौषधौकसि । पौषधी विद्याधराणामाचख्यौ धर्ममार्हतम् ॥ ४५३ ॥ तदा च चारणमुनी धर्मस्येव भुजावुभौ । आजग्मतुस्तत्र चैत्ये जिनबिंब विवन्दिषू ।। ४५४ ।। तावापतन्तावालोक्यामिततेजा महीपतिः । अभ्युत्थायाभ्यवन्दिष्ट हृष्टोऽभीष्टावलोकनात् ॥ ४५५ ॥ तौ त्रिःप्रदक्षिणीकृत्य जिनेन्द्र मुनिपुङ्गवौ । ववन्दाते बभाषाते इति चामिततेजसम् ॥४५६ ।। मराविवाम्भः संसारे मानुष्यमतिदुर्लभम् । तत्प्राप्तं न मुधा नेयमविवेकेन जातुचित् ॥ ४५७ ॥ जैने धर्मे विधातव्यो न प्रमादो मनागपि । जिनधर्म विना नान्यदुत्तरोत्तरकामदम् ।। ४५८ ॥ इत्युदित्वा जग्मतुस्तौ पुनरेव विहायसा । विश्वेष्टदर्शनौ वृष्ट्वा प्रावृषेण्याविवाम्बुदौ ।। ४५९ ॥ १ अनल्पलक्ष्मीको । २ सुधीश्रेष्ठौ । ३ अवसरे । ४ पौषधवान् । ५ वर्षाकालसम्बन्धिनौ ।
श्रीविजयामिततेजोधर्म कृत्यम् ।
॥३३॥