________________
त्रिषष्टिशलाकापुरुषचरिते
॥३२॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
तत्राप्यभाग्यादप्राप्तजिनधर्मस्तपस्व्यहम् । बहुकष्टं स्वल्पफलं हहा बालतपो व्यधाम् ॥ ४३१ ॥ कृत्वा निदानं तस्यापि तपसोऽहमिहाभवम् । पुर्या चमरचञ्चायां विद्याधरपतिः प्रभो ॥४३२ ॥ निदानिनोऽपि तपसः परस्त्रीहरणस्य च । महाज्वालामहाविद्याप्रभवस्य भयस्य च ।। ४३३ ॥ . परिणामः शुभोदर्को ममाजनि जगद्गुरो । शरणं यदवाप्तोऽसि सर्वदुःखविमोचनः ।। ४३४ ।। वस्त्विवान्धः पुरोवर्ति जिनधर्ममसविदन् । इयतोऽहं भवान् भ्रान्तो रक्ष रक्षाधुनापि माम् ।। ४३५ ।। अतः परं क्षणोऽप्येको यतिधर्मोज्झितस्य मे । मा गादिति विभोऽद्यैव दीक्षां शैक्षाय देहि मे ॥ ४३६ ॥ युक्तमेतदिति प्रोच्यानुगृहीतोऽचलेन सः । प्रश्रयं संश्रयन्नेवमुवाचामिततेजसम् ॥ ४३७ ॥ ज्वलनः कर्मकक्षाणां पूज्यो ज्वलनजट्ययम् । धर्मः साक्षादिव जयी तव यस्य पितामहः ॥ ४३८ ।। अयं च भगवान धन्यस्तुणवत्त्यक्तवैभवः । तपस्तेजोभिरर्कोऽर्ककीर्तिर्यस्य च ते पिता ॥ ४३९ ।। भाविनश्चक्रिणस्तस्य भाविनश्चाहतस्तव । प्रणिपातं कुर्वतो मे न लज्जा मानिनोऽपि हि ।। ४४० ॥ इदं चमरचञ्चायां मम राज्यममी सुताः । अश्वघोषादयोऽन्यच्च त्वदीयं विद्धि मान्यथा ।। ४४१ ॥ इत्युदित्वा सोऽश्वघोषं ज्यायांसं निजमात्मजम् । क्षीरकण्ठमिवाक्षप्सीदुत्सङ्गेऽमिततेजसः ॥ ४४२ ॥ ततो नरेन्द्रैर्भूयोभिः सहेन्द्राशनिनन्दनः । उपादत्त परिव्रज्यामचलस्वामिसंन्निधौ ॥ ४४३ ॥ माता श्रीविजयस्यापि तत्रागत्य स्वयंप्रभा । अचलस्वामिपादान्ते परिव्रज्यामुपाददे ॥ ४४४ ।। बलं नत्वामिततेजा राजा श्रीविजयोऽपि च । अश्वघोषादयश्चेयुः स्थानं निजनिजं ततः ॥ ४४५ ।। १ शिष्याय । २ कर्माण्येव कक्षानि तृणानि तेषां ज्वलनोऽमिः । ३ बालमिव ।
अशनिघोषप्रव्रज्या।
||३२ ॥