________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३१ ॥
ततः प्राग्भवसम्बन्धात् सुतारायां तवाभवत् । स्नेहोऽयं पूर्वसंस्कारो याति जन्मशतान्यपि ॥। ४१७ ।। सुतारामिततेजाश्च तथा श्रीविजयोऽशनिः । संवेगं विस्मिंतं चेयुः प्राग्भवाकर्णनात्ततः ।। ४१८ ।। भव्यः किमस्मि यदि वा नास्मीत्यमिततेजसा । पृष्टोऽभाषिष्ट भगवान् बलभद्रमहामुनिः ।। ४१९ ।। इतो भवात् त्वं नवमे मवे क्षेत्रेऽत्र भारते । द्वात्रिंशद्बद्धमुकुटनृपसहस्रैः सेवितः ।। ४२० ।। चतुर्दशमहारत्ननाथो नवनिधीश्वरः । समुद्रक्षुद्रहिमवन्मेखलायाः पतिर्भुवः ॥ ४२१ ।। सेव्यमानो मागधाद्यैरपि देवकुमारकैः । पञ्चमश्चक्रवर्ती त्वं महाभुज भविष्यसि ।। ४२२ ।। भवे तत्र चतुःषष्टिसुरेन्द्रप्रणतक्रमः । शान्तिनाथ इति ख्यातः षोडशोऽर्हन् भविष्यसि ।। ४२३ ।। राजा श्रीविजयोऽयं तु तस्मिन्नेव भवे तव । प्रथमस्तनयो भावी प्रथमो गणभृत्तथा ।। ४२४ ॥ ॥ पञ्चभिःकलापकम् ॥
ततो मुनिं प्रणम्य श्रीविजयामिततेजसौ । नरेन्द्रौ द्वादशविधं भेजतुः श्रावकव्रतम् ।। ४२५ ।। प्रणम्याशनिघोषस्तु बलभद्रं महामुनिम् । एवं विज्ञपयामास सुमना भक्तिवामनः ।। ४२६ ।। सर्वज्ञ त्वन्मुखाच्छ्रुत्वा स्वदुःखं प्राग्भवोद्भवम् । मनो मम तदावेशादिदानीमपि कम्पते ।। ४२७ ॥ भगवन् भवदाख्याते पुरा कपिलजन्मनि । आर्त्तध्यानं चकाराहं यत्प्रियाविप्रयोगतः ॥ ४२८ ॥ नानाविधवधच्छेदभेदभीमासु योनिषु । उत्पद्येोत्पद्य बहुशः प्राप्तवानस्मि तत्फलम् ।। ४२९ ।।
कामया निर्जरया जीर्णदुष्कर्मकस्ततः । कथञ्चित्प्राप्तवानस्मि मानुष्यं पूर्वजन्मनि ।। ४३० ।। १ वैराग्यम् । २ विस्मयम् । ३ क्रमः पादः । ४ भक्त्या नम्रः ।
पञ्चमं पर्व प्रथमः
सर्गः
श्री शान्तिनाथजिन
चरितम् ।
अशनिघोषप्रव्रज्या ।
।। ३१ ।।