________________
त्रिषष्टिशलाकापुरुषचरिते ॥३०॥
पञ्चमं पर्व प्रथमः तर्गः श्रीशान्तिनाथजिनचरितम् ।
दीक्षां निजपितुः पार्वे गृहीत्वा स जटाधरः । समारेभे बालतपः पैतृकं मातृकं हि तत् ।। ४०३ ।। अधिसेहे स हेमन्ते हिमभीमासु रात्रिषु । गलन्त्या वारिसम्पातं शैलाश्मा निर्झरादिव ॥४०४ ।। मार्तण्डो मुनि पार्श्वेषु ज्वलन्त्यश्च हसन्तिकाः । सहते स्मेति पञ्चाग्नीन् ग्रीष्ममध्यंदिनेषु सः ॥ ४०५ ।। पयोदवृष्टिपूर्तेषु स्वयं खातसरस्सु च । अधोरमन्त्राद्यजपदाकण्ठं पयसि स्थितः ।। ४०६ ।। वापीः कूपान् सरसीश्च चखानाखानयच्च सः । अप्कायपृथिवीकायजीवबाधानिरर्गलः ।। ४०७ ॥ आदाय दात्रपरशू कृषीवल इव स्वयम् । चिच्छेद समिधो दर्भान् सोऽभवत् स्वल्पबुद्धिकः ।। ४०८ ॥ स चक्रे धर्मशकटीर्मार्गदीपानदत्त च । घुणदाहपतङ्गादिपातपातकनिर्भयः ॥ ४०९ ॥ अतिथीनामिव सदा काकादीनां दुरात्मनाम् । पिण्डदानं स विदधे भोजनस्यादितोऽपि हि ॥ ४१० ॥ आनर्च च ववन्दे च देववद्गीः स गोनिभः । न्यग्रोधपिप्पलारिष्टप्रभृतीनछिपानपि ।। ४११ ।। सपूतरैः स पानीयैः सिषेच स महीरुहान् । पानीयशाला बिभरांचकार च पदे पदे ॥ ४१२ ॥ इत्यादिकं धर्मबुद्ध्या विदधानः स मुग्धधीः । कालं ललचे भूयांसमायासफलजीवितः ।। ४१३ ।। अपरेधुर्विमानस्थं स गच्छन्तं विहायसा । विद्याधरं ददर्शकं महर्द्धिकमिवापरम् ।। ४१४ ।। फलेन तपसोऽमुष्येदृग्भूयासं भवान्तरे । इत्यकार्षीन्निदानं स क्रमेणाप च पञ्चताम् ॥४१५ ।। ततश्चमरचञ्चायां पुर्या विद्याधरप्रभोः । इन्द्राशनेः स आसुर्या पत्न्यां त्वमुदभूः सुतः ॥ ४१६ ॥ १ मेघवृष्टिपूर्णेषु । २ मृतानां जन्मान्तरे तत्तल्लाभार्थं शकटी दीयते तथा तन्निमित्तं दीपदानं कुर्वन्ति । ३ गाः धेनूः । ४ वृषभ सदृशः । ५ पूतरा जलजन्तुविशेषाः । ६ मृत्युम् ।
पूर्वजन्मकथनम् ।
॥३०॥