________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
IR९॥
ततः प्रतिनिवृत्तः सन् वने ज्योतिर्वनाभिधे । इमां सुतारामद्राक्षं स्थितां श्रीविजयान्तिके ।। ३८७ ॥ | केनापि हेतुनामुष्यां कोऽपि वाचामगोचरः । ममालोकितमात्रायां स्नेहः समुदपद्यत ।।३८८ ॥ ततश्चाचिन्तयमहं नालं गन्तुं विनानया । मनो मम प्रोत्सहते संदानितमिवोच्चकैः ।। ३८९ ।। राज्ञः श्रीविजयस्यास्य दोष्मतः पार्श्ववर्तिनी । न चैषा शक्यते हतु शेषस्येव शिरोमणिः ॥ ३९० ॥ प्रतारण्या विद्यया तन्मोहयित्वा महीपतिम् । एतामहमपाहा चिल्ली हारलतामिव ।।३९१ ।। स्वजनन्याः समीपे चामुञ्चमेतामनिन्दिताम् । चन्द्रस्यापि कलङ्कोऽस्ति न त्वेतस्या मनागपि ।। ३९२ ।। न चोक्तं वचसाप्यस्यां मया किंचिदशोभनम् । परमाख्याहि भगवन् किं मेऽस्यां स्नेहकारणम् ।।३९३ ।। अथाख्यद्भगवान् सत्यभामाकपिलयोः कथाम् । श्रीषेणस्य शिखिनन्दिताभिनन्दितयोरपि ।। ३९४ ॥ स मुनिः पुनरप्याख्यच्छ्रीषेणोऽथाभिनन्दिता । सा शिखिनन्दिता सत्या मृत्वा युगलिनोऽभवन् ।।३९५ ।। ततोऽपि मृत्वा सौधर्मे चत्वारोऽप्यभवन् सुराः । ततोऽपि च्युत्वा श्रीषेणोऽमिततेजा अभूदयम् ।।३९६ ।। शिखिनन्दिताजीवस्तत्पत्नी ज्योतिःप्रभेत्यभूत् । तथाभिनन्दिताजीवः सीऽयं श्रीविजयोऽभवत् ॥३९७ ॥ जीवस्तु सत्यभामायाः सुतारेयमजायत । मृत्वार्तध्यानी कपिलो बभ्रामानेकयोनिषु ।। ३९८ ॥ आर्तध्यानोद्भवं कर्माकामनिर्जरया स तु । उत्पद्योत्पद्याक्षपयत्तिर्यग्नरकवासिषु ॥३९९ ॥ भूतरत्नाभिधाटव्यामैरावत्याश्च रोधसि । तापसाग्यस्य जटिलकौशिकस्य तपस्विनः ॥ ४०० ॥ पन्यां पवनवेगायां धर्मिलो नाम दारकः । उत्पेदे कपिलजीवः शमिलायुगयोगवत् ।। ४०१ ।। लाल्यमानस्तापसीभिराश्रमाङ्गणवृक्षवत् । क्रमादासादयामास वृद्धि धर्मिलदारकः ॥ ४०२ ।।
FAAAAAAAABHASHASHA
पूर्वजन्मकथनम्।
॥२९॥