________________
त्रिषष्टिशलाकापुरुषचरिते IR८॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
इतश्च चमरचञ्चा मरीचिरविशत्पुरीम् । गृहे चाशनिघोषस्य मातुः पार्श्वमुपाययौ ॥३७३ ॥ हिमामिव नलिनी पङ्कममामिवार्जुनीम् । दवप्राप्तामिव लतां वोगुरास्थां मृगीमिव ॥३७४ ।। इन्दुलेखामिवाहस्थां तटस्थां शफरीमिव । वारीबद्धामिव वशां हंसी मरुगतामिव ।। ३७५ ।। सुतारामुपवासस्थां तत्र चात्यन्तदुःखिताम् । मन्त्रवत् पतिनामैव स्मरन्तीं स उदैक्षत ।। ३७६ ।।
॥त्रिभिर्विशेषकम् ।। ततः स आख्यदशनिघोषमातुरशेषतः । यत्सुतारानयनायादिष्टोऽस्म्यमिततेजसा ।। ३७७ ।। सुतारां समुपादायाशनिघोषजनन्यपि । आययावचलस्वामिसभायां यत्र तत्पतिः ।। ३७८ ॥ सा तत्कालमपि हि श्रीविजयामिततेजसोः । सुतारामर्पयामासानेघा न्यासीकृतामिव ॥३७९ ॥ बलदेवं भगवन्तं केवलज्ञानिनं ततः । सा वन्दित्वा यथास्थानं निषसाद प्रसादभाक् ॥ ३८० ॥ तदा चाशनिघोषोऽपि क्षमयामास सामवाक् । नरविद्याधरेन्द्रौ श्रीविजयामिततेजसौ ।। ३८१ ।। शान्तवैरास्ततः सर्वेऽप्यभवंस्तत्र पर्षदि । देशनां चाचलस्वामी विदधे शुद्धिदायिनीम् ।। ३८२ ।। देशनान्तेऽशनिघोषो बलभद्रमहामुनिम् । इति विज्ञपयामास ललाटघटिताञ्जलिः ।। ३८३ ।। स्वस्थाने तस्थुषी सेयं दन्तिनेवारविन्दिनी । न हि दुष्टेन मनसा सुतारापहृता मया ।। ३८४ ॥ किं त्वहं चमरचञ्चानगर्यां गतवान् पुरा । आयतने भगवतो जयन्तस्य महामुनेः ॥३८५ ।। तत्र च भ्रामरी विद्यां किञ्चिद्भमरवद्गृणन् । असाधयमहं स्वामिन् सप्तरात्रमुपोषितः ।। ३८६ ॥ १ घेनुम् ।२ पाशबद्धाम् । ३ दिवसस्थां । ४ वारी गजबन्धनस्थानं तस्यां बद्धां वशां हस्तिनीम् । ५ निर्दोषाम् ।
पूर्वजन्मकथनम् ।
॥२८॥