________________
त्रिषष्टिशलाका
पुरुषचरिते
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
IR७॥
तस्याः पलायमानः सोऽनाप्नुवन् शरणं क्वचित् । अपाग्भरतवर्षाधं प्राविशच्छरणेच्छया । ३५९ ॥ ततश्च तत्र सीमाद्रौ चैत्ये श्रीऋषभप्रभोः । समवसरणस्थाने स्थापितोऽस्ति गजध्वजः ।। ३६०॥ बलदेवमुनिस्तत्राचलः पूर्वाब्धिपारगः । शुक्लध्यानी प्रत्यपादि प्रतिमामेकरात्रिकीम् ।।३६१ ॥ कर्मणां घातिनां छेदात्तदा तस्य महामुनेः । उत्पेदे केवलज्ञानं विश्वसंक्रान्तिदर्पणः ॥३६२ ।। तस्याथ केवलज्ञानमहिमानं विधित्सवः । सुरासुराः समाजग्मुरायुक्ता इव सत्वरम् ॥३६३ ॥ तौ चाभिनन्दनजगन्नन्दनौ वह्निजट्यपि । त्रिजटी चार्ककीर्तिश्च पुष्पकेतुरथापरे ।। ३६४ ॥ विमलमत्यादयोऽपि समेयुश्चारणर्षयः । बलं प्रदक्षिणीकृत्य नत्वा च समुपाविशन् ।।३६५ ।।
॥युग्मम् ।। महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणम् । ययौ शरण्यमचलं प्रशमैकसुधाइदम् ।।३६६ ।। सापि मुक्त्वाशनिघोषं महाज्वाला न्यवर्तत । न हीन्द्रकुलिशस्यापि स्फूर्तिः केवलिपर्षदि ।।३६७ ।। अशेषं तं च वृत्तान्तमुपेत्यामिततेजसे । कथयामास सा विद्या निजमोघत्वलज्जिता ॥ ३६८ ॥ तं च वृत्तान्तमाकर्ण्य कलापीव घनध्वनिम् । अमोदतामिततेजा राजा श्रीविजयोऽपि च ।। ३६९ ॥ इतः पूर्याः समादाय सुतारां द्रुतमानयेः । एवं मारीचिमादिश्योत्कण्ठापूरितमानसः ॥३७० ॥ ससैन्योऽमिततेजाः स च श्रीविजयो नृपः । वायुवढ्योमयानेन सीमाद्रिं द्रुतमीयतुः ॥३७१ ॥ तत्र चर्षभनाथस्य वन्दित्वा बिंबमादितः । बलदेवं ववन्दाते तदग्रे च निषेदतुः ।। ३७२ ।। १ चतुर्दशपूर्वाण्येव समुद्रस्तस्य पारगः । २ स्वस्य वैफल्येन लज्जिता । ३ मयूर इव ।
3ASSASARASHRSHASHRAS
बलदेवमुनेः केवलज्ञानम् ।
॥२७॥