________________
त्रिषष्टिशलाकापुरुषचरिते IR६॥
पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् ।
प्रहारान् वञ्चयमानावन्योऽन्यस्यातिलाघवात् । सुरासुरैर्वीक्ष्यमाणौ ययुधाते महाभुजौ ।। ३४५ ।।
॥युग्मम् ॥ अथ श्रीविजयः क्रुद्धः खड्गेनाहत्य विक्रमी । व्यधाद् द्विधाशनिघोषं कदलीकाण्डलीलया ।। ३४६ ॥ वटपादादिव वटौ ते च खण्डे उभे अपि । अभूतामशनिघोषौ घोषभेषितसैनिकौ ।। ३४७ ॥ तावप्यशनिघोषौ स यावच्चक्रे द्विधा द्विधा । संजज्ञिरेऽशनिघोषाश्चत्वारस्तावदुद्धताः ॥३४८ ॥ चतुरोऽपि द्विधा चक्रे तान् यावदवनीपतिः । तावदष्टाशनिघोषा जज्ञिरे समराजिरे ॥३४९ ।। खण्डितैरशनिघोषैरेवं तेन मुहुर्मुहुः । सहस्रशोऽशनिघोषाः शालिस्तंबा इवाभवन् ॥३५० ॥ बहुशोऽशनिघोषैस्तैर्युगपत् पोतनेश्वरः । अलक्षि वेष्ट्यमानः सन् विन्ध्याद्रिरिव वारिदैः ॥३५१ ॥ छेदं छेदं च तान् श्रान्तो यावच्छ्रीविजयोऽभवत् । तावत् सिद्धमहाज्वालोऽमिततेजाः समाययौ ॥३५२ ॥ आगच्छतः प्रतापोष्णतेजसोऽमिततेजसः । प्रणेशुरशनिघोषसैन्याः सिंहान्मृगा इव ॥३५३ ॥ न नंष्टुमपि दातव्यं द्विषामेषां दुरात्मनाम् । इति विद्यां महाज्वालां विन्ययुङ्क्तार्ककीर्तिसूः ।। ३५४ ।। अहिता मोहिताः सद्यस्ते महाविद्यया तया । शरण्यं शरणायेयुस्तमेवामिततेजसम् ।। ३५५ ।। गन्धेभगन्धमाघ्राय करीवामिततेजसम् । अवलोक्याशनिघोषः पलायिष्ट निरर्गलम् ॥३५६ ।। दूरादपि दुरात्मायमानेतव्यस्त्वयेति सा । महाज्वाला महाविद्याभिदधेऽमिततेजसा ।। ३५७ ।। ततश्चाशनिघोषस्य पृष्ठतो रुष्टकालवत् । पर्यधाविष्ट सा विद्या सर्वविद्यान्तकारिणी ॥३५८ ।। १ वटमूलात् । २ छित्वा छित्वा । ३ प्रतापेन सूर्यसमानस्य । ४ शत्रवः ।
अशनि
घोषस्य
पराजयः।
॥२६॥